SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ 303 कथं वैरूप्यनिर्देश इत्याह-'स्' इत्युत्सृष्टेत्यादि-अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्ध इत्, उत्सृष्टः त्यक्तोऽनुबन्धो यस्येति विग्रहः। अनेनैतद् ज्ञाप्यते-सेरिकारोऽनुबन्ध एव न तु रूपम्, तिवस्तु वकारः। अत एवाऽत्र व्यवस्थार्थ आदिशब्दो गृहीतः, तेन ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचायैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽत्र गृह्यन्ते इत्याह-स्यादय इत्यादि। प्रदिश्यन्ते प्रयोजनेष्विति प्रदेशा:-प्रयोजनस्थानानीति ।।१९।। ल.न्यास-स्त्यादिरित्यादि-विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृ-कर्मादयोऽर्था अनयेति, विभजनं वा "श्वादिभ्यः" (५.३.९२) इति क्तिः। अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्ध इत्, उत्सृष्टस्त्यक्तोऽनुबन्धो येन यस्य वा स तथा तस्य। व्यवस्थावाचीति-तेन ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचायैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽत्र गृह्यन्त इति ।।१९।। तदन्तं पदम् ।१।१।२०।। बृन्यास-तदन्तमित्यादि-“पदिंच् गतौ" पद्यते गम्यते कारकसंसृष्टोऽर्थोऽनेनेति “वर्षादयः क्लीबे" (५.३.२९) इत्यलि पदम्। तच्छब्दस्य तु पूर्ववस्तुपरामर्शित्वादनन्तरोक्त(स्य)स्यादेस्त्यादेश्च परामर्शी, अत आह-स्याद्यन्तमित्यादि। ननु अन्तग्रहणं किमर्थम्? न चासत्यन्तग्रहणे स्यादेरेव पदसंज्ञा स्यात्, ततश्च ‘अग्निषु' इत्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम्, “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया तदन्तविधेर्लब्धत्वादिति। उच्यते-पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रतिषेधार्थम्, तेन पूर्वसूत्रे तदन्तस्य विभक्तिसंज्ञा न भवति, अन्यथा ‘शेषाय युष्मदृद्धिहिताय नमः' इत्यत्रैव 'ते-मे' आदिप्रसङ्गः । यद्येवं कृत्-तद्धितयोः केवलयोरेव नामसंज्ञा स्यात्, न तदन्तयोः, ततश्च ‘छिद्, भिद्', इत्यत्र क्विबन्तस्य न स्याद्, अर्थवत्त्वाद् भविष्यतीत्यपि न वाच्यम्, अधात्विति निषेधात् ; नापि प्रत्ययलक्षणेन प्राप्नोति (*प्रत्ययलोपे प्रत्ययलक्षणम् ) यतः प्रत्ययनिमित्तमन्यस्य यत् कार्य विधीयते तत् प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्यं तदपि, न ह्यसत् कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुम्। केवलस्य च तस्य नामसंज्ञायाम् ‘औपगव' इत्यत्र षष्ठ्या ऐकार्थ्याभावाल्लब न स्यात्, (प्रातिपदिकेऽनन्तर्गतत्वाल्लग् न स्यादिति कैयटः) तदन्तविधौ तु दोषानवकाशः। उच्यते-प्रत्ययस्य संज्ञिनस्तदन्तस्य संज्ञा न भवति, न तु प्रत्ययस्य या संज्ञा विधीयते तस्यास्तदन्ताया अन्या संज्ञा न भवतीति, यतोऽर्थवतो नामसंज्ञा; कृत्-तद्धितान्तं चाऽर्थवत्, न केवलाः कृतस्तद्धिता वा। ननु यद्यर्थवत्ता लौकिक्याश्रीयते सा पदस्यैव, न कृत्तद्धितान्तस्यापि, तस्यैव लोके प्रयोगाद्; अन्वयव्यतिरेकगम्या त्वर्थवत्ता केवलानामपि कृत्-तद्धितानामस्ति, ततः किमुच्यते न केवलाः कृतस्तद्धिता वेति? एवं तर्हि अर्थवद्ग्रहणसामर्थ्याद् लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते स इहाऽऽश्रीयते इत्यदोषः, (लौकिकार्थप्रत्यासन्न इति-लौकिकार्थकं यत् पदं तदर्थस्य प्रत्यासन्नः शास्त्रकृत्कल्पितस्यादिप्रकृतेरर्थः, तदाह-अभिव्यक्ततर इति, तदेवाऽऽह -प्रत्ययान्तेष्विति, कृत्-तद्धितप्रत्ययार्थस्तु न तादृशः, कल्पितावयवार्थत्वात् तस्य, प्रत्ययान्तेषु स्याद्यन्तेषु स्याद्यर्थत्वात् तस्याः, स्यादेः द्योतकत्वात् तत्रैव स लक्ष्यते, न तु तद्रहित इत्यर्थः) इत्याह-अन्तग्रहणमित्यादि। पूर्वसूत्रे इति-संज्ञाविधावित्यर्थः। सा हि विधेः पूर्वेति ।।२०।। __ल.न्यास-तदन्तमित्यादि-पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् “वर्षादय:०" (५.३.२९) इत्यल्। नन्वन्तग्रहणं किमर्थम्? न चासत्यन्तग्रहणे ‘सा पदम्' इति कृते स्त्यादेरेव पदसंज्ञा स्यात्, ततश्च ‘अग्निषु'इत्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम्। “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया तदन्तविधेर्लब्धत्वादिति, सत्यम्-पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रतिषेधार्थम्, अन्यथा “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया स्त्याद्यन्तस्य विभक्तिसंज्ञा स्यात्, तस्यां च सत्यां 'काष्ठगृहं युष्मत्पु. त्राणाम्' इत्यादौ काष्ठशब्दस्य गृहमिति विभक्त्या पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादित्यतिव्याप्तिः
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy