________________
परिशिष्ट-२
3८१ मिथः स्वसंज्ञा सिद्धा, यतो नैते शास्त्रे स्वशब्दोपादानमन्तरेण कार्येषु भिद्यन्त इति। तप्त॑ति-"तृपौच प्रीतो" श्वस्तन्यास्ताप्रत्यये गुणे च तत। अत्र पकार-तकारयोरेकः प्रयत्नः स्पृष्टता, न तु स्थानम्, पकारस्य ह्योष्ठा, तकारस्य तु दन्ताः, तयोः स्वत्वे "धुटो धुटि स्वे वा" (१.३.४८) इति पकारस्य तकारे लोपः स्यादिति। अरुश् श्योततीति-अर्तेः “रुद्यर्ति-जनि-तनि-धनि०" (उणा० ९९७) इत्युसि गुणे अरुस्, (ततः सकारस्य रुत्वे-अरुर्) “स्च्युत क्षरणे" तिवि शवि उपान्त्यगुणे “सस्य शषौ" (१.३.६१) इति सकारस्य (धातुसकारस्य) शत्वे रेफस्य तु “शषसे शषसं वा" (१.३.६) इति शत्वे 'अरुश् श्च्योतति' इति-अत्र शकारचकारयोरेकं स्थानं तालु, न प्रयत्नः, शकारस्येषद्विवृतत्वाञ्चकारस्य तु स्पृष्टत्वाद्, इति (आस्यप्रयत्नाग्रहणे तुल्यस्थानत्वेन स्वसंज्ञया) शकाराद् वा परस्य (परस्य) शकारस्य चकारे (परे वा) लोप: स्यादिति ।।१७ ।।
ल.न्यास-तुल्येत्यादि-तोल्यतेऽनया भिदाद्यङि तुला, तुलया संमितस्तुल्य: “हद्य-पद्य०" (७.१.११) इत्यादिना यः। प्रयत्न उत्साहः। नासिकौष्ठौ चेति-व्यस्तावेतो, समासे तु “प्राणितूर्य०" (३.१.१३७) इति समाहारः स्यात्। कलयति ईषदास्यभावम्, अच्, अल्पाद्यर्थे कपि, णके वा (कलकः), कु ईषत् कलक: काकलकः “अल्पे" (३.२.१३६) इति कादेशः; काकलक इति संज्ञा यस्य स तथा, ग्रीवायामुन्नतप्रदेशः । आन्तर इति-अन्तरा भव: "भवे" (६.३.१२३) अण, अन्तर्जातो वा, भवे त्वर्थे दिगादित्वाद् यः स्यात्। स्पृश्यन्ते स्म स्पृष्टा वर्णाः, तेषां भावः स्पृष्टता-वर्णानां प्रवृत्तिनिमित्तम् ; स्पृष्टताहेतुत्वात् प्रयत्नोऽपि स्पृष्टता, “अभ्रादिभ्यः" (७.२.४६) इत्यप्रत्यये वा, संज्ञाशब्दत्वात् स्त्रीत्वम्। प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते, एवं सर्वत्र । एवमीषत्स्पृष्टताऽपि। विव्रियन्ते स्म विवृता वर्णास्तेषां भावः । ईषद् विव्रियन्ते स्मेत्यादि । करणमिति-वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणम्। सर्वेति-सर्वं मुखं स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानानि अवर्णस्येत्यर्थः । कण्ठ-तालव्याविति-कण्ठतालुनि भवौ, देहांशसमुदायादपि यः। स्वरेषु ए-ओ विवृततराविति-ननु विवृततरताऽतिविवृततरताऽतिविवृततमतारूपाणां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितम्, कथं चतुर्धेत्युक्तम् ? सत्यम्विवृततरतादीनपि विवृततया परिगृह्योक्तं चतुर्धा इति, विशेषस्य सामान्येऽन्तर्भावात्। अकारः संवृत इत्यन्ये इति-संवृतताऽऽख्यं पञ्चमं प्रयत्नमन्ये मन्यन्त इत्यर्थः । अकारं संवृतं शिक्षायामेके पठन्ति, तेनाकाराकारयोः संवृत-विवृतयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोतीति विवृत एवात्र प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तम्। सानुनासिकेति-नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्ण: स तथा। निर्गतोऽनुनासिकाद् यः स तथा। स्वरः संजातो येषां ते स्वरिताः। यथाकथञ्चिद् व्युत्पत्तिः। अनुनासिक इति-अनुनासिको धर्मोऽ. स्यास्तीति अभ्रादित्वाद् अः, तद्धर्मरहितोऽननुनासिक इति। रेफोष्मणां त्विाते-अन्यवर्णापेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव । एवमूष्मणामपि स्वा न भवन्तीति।
ननु वर्णानां तुल्याऽऽस्यप्रयत्नत्वे कथं श्रुतिभेदः? उच्यते-कालपरिमाण-करण-प्राणकृतगुणभेदात् श्रुतिभेदः। तथाहि-यावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्धमात्राकालं व्यञ्जनम् ; तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति। करणं च श्रुतिभेदकरं भवति, तत् प्रागेवोक्तम्। प्राणकृताश्च गुणभेदा घोषाघोषादय इति। निवृत्त्यर्थमिति-तेनारुश्च्योततीत्यत्र शकार-चकारयोस्तुल्यस्थान-बाह्यप्रयत्नत्वे सत्यपि “धुटो धुटि०" (१.३.४८) इति शकारस्य चकारे लोपो न भवति। ते ह्यासन इत्यत्रैवेति-"आसन्नः" (७.४.१२०) इत्यत्रापि महाप्राणस्यैवावकाशः, अन्येषां च वेदे प्रयोजनम्। उपयुज्यन्त इति-उपयुक्ता भवन्तीत्यर्थः । शिक्षामिति-वर्णोत्पत्तिप्रतिपादकं शास्त्रम्। कोष्ठे उदरे। अन्यतमस्मिनिति-मतान्तरेणाऽयं साधुः, स्वमतेऽन्यतरग्रहणादन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधान सिध्यति। अनुप्रदानमिात-अनुप्रदीयते वर्णान्तरसंजननार्थमेकत्र मील्यते "भुजिपत्यादिभ्यः०" (५.३.१२८) (इत्यनट्) निग्रह इति-स्तब्धत्वं कठिनत्वमिति यावत्। अणुत्वम्-सूक्ष्मत्वम्। वसनम्-श्लथत्वमित्यर्थः । वर्णनिष्पत्तिकालभावेति-अत्राल्पस्वरत्वेन भावशब्दस्य पूर्वनिपातः । श्वासलक्षणमनुप्रदानं येषां ते तथा। इतरे इति-इतरत्वं पूर्ववाक्याऽपेक्षम्, न सर्वेषामित्यर्थः । उदात्तादीनां स्वरेष्वेव संभवान व्यञ्जनेषु इति व्यञ्जनोत्पत्तौ न कथ्यन्ते उदात्तादयो बाह्यप्रयत्नाः ।।१७।।