SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 3८० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન स्थानमोकारस्य, केवलं तु वायुः कण्ठमभिहन्तीति। इतरे तदपि स्थानमिति मन्यन्ते। श्रुतिभेदोऽपि अग्रोपाग्रमध्यमूलभेदाद् भवति। यथा-इवर्ण-य-शानामिति (जिह्वामध्यकरणानामिवर्ण-चवर्ग-य-शानां तद्व्यतिरिक्तकरणेभ्योऽन्यवर्णेभ्यः)। (सृक्कस्थान इति) सृक्कशब्देनौष्ठपर्यन्तोऽभिधीयते। स्पृष्टं स्पृष्टतागुणः, स्पृष्टतानुगतं करणं कृतिरुञ्चारणप्रकारः, एवमन्यत्रापि। विवृतं करणं स्वराणामिति। ("स्पृष्टं करणं स्पर्शानाम्"। “ईषत्स्पृष्टमन्तस्थानाम्"। “विवृतमूष्मणाम्" ईषदित्येवानुवर्तते। "स्वराणां च विवृतम्" ईषदिति निवतृम्। इति शौनकप्रातिशाख्यरूपाणि चत्वारि सूत्राणि भाष्ये प्रदर्शितानि ।) अत्रापि 'ईषद्' इति केचिदनुवर्तयन्ति, तेनावर्ण-ह-कारयोर्तृवर्ण-शकारयोश्च स्वत्वं प्राप्नोति, न तत्रापि कश्चिद् दोषः। स्वरेष्विति-निर्धारणे सप्तमी। ननु विवृततरतादीनां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितम्, कथमुक्तं चतुर्द्धति?। उच्यते-विवृततरतादीनपि विवृततया परिगृह्योक्तं चतुर्द्धति, विशेषस्य सामान्येऽन्तर्भावादिति। (अकारः संवृतः) अकारं संवृतं शिक्षायामेके पठन्ति, तेनाकाराकारयोः संवृत(विवृत)योभिन्नप्रयत्नत्वात् स्वत्वं न प्राप्नोतीति विवृत एवात्र प्रतिज्ञायते, प्रयोगे तु संवृतः, संवृत एव स्वरूपेणासौ इति ‘अन्ये' इत्युक्तम्। सानुनासिक० इति-नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्णः स सानुनासिको वर्णः । निर्गतोऽनुनासिका यः स निरनुनासिकः। एवमिवर्णास्तावन्त इति-'तावन्तः' इति पदम् उवर्णा ऋवर्णा लवर्णा इत्यत्रापि संबन्धनीयमिति। य-लवानामिति-अनुनासिको धर्मोऽस्यास्तीति अभ्रादित्वाद् ("अभ्रादिभ्यः" ७.२.४६) अकारेऽनुनासिकशब्देन वर्णाभिधानम्, तद्धर्मरहितोऽननुनासिक इति, तद्धर्मवतां हि स्वसंज्ञा, न तु धर्माणामिति। रेफोष्मणामिति-अन्यवर्णाऽपेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव, एवमूष्मणामपि। ननु वर्णानां तुल्यस्थानाऽऽस्यप्रयत्नत्वे कथं श्रुतिभेदः?, उच्यते-कालपरिमाण-करण-प्राणकृतगुणभेदाद् भेदः, तथाहियावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा भवति, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्द्धमात्राकालं व्यञ्जनम् ; तदेतद्वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति ; करणं च श्रुतिभेदकरं भवति तत् प्रागेवोक्तम् ; प्राण(कृ)ताश्च गुणभेदा घोषाघोषादयः, तत्रायमभिप्राय: "पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वास-निःश्वासबलं तथाऽऽयुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजी(गी)करणं च हिंसा" ।।१७।। इमे दश प्राणाः, एतेषु त्रिविधं बलमिह प्राणा इति विवक्षितं मनो-वाक्-कायबलरूपम्, तत्प्रयोगभेदाद् घोषादयो गुणा भवन्ति। ध्वनेः स्थान-प्रयत्नतुल्यत्वेऽपि यथा द्वयोरङ्गल्योस्तुल्यदेशावस्थितयोः समजवयोः सति संपाते प्रयोक्तृविशेषात् कदाचिद् मन्दो भवति शब्दः, कदाचित् स्फुटः, कदाचित् स्फुटतर इति। ननु तथाऽप्यवर्णस्य स्वसंज्ञा न प्राप्नोति, आस्याद् बाह्यं हि तस्य स्थानं काकलकादधस्तादुपजत्रुरूपम्, (कण्ठस्याधोभागस्थितयोरस्थ्नोः जत्रु) नैवम्-सर्वमुखस्थानत्वात्, सर्वमेव मुखमवर्णनिष्पत्ती व्याप्रियते इति नाऽस्य बाह्यस्थानता। एवमप्येदोतोः प्रथमभागस्याऽकारेण सादृश्यात् स्वसंज्ञाप्रसङ्गः, नैवम्-प्रश्लिष्टावर्णावेतौ पांसूदकवन्नात्र शक्यो विवेकः कर्तुमिति। न च विश्लिष्टावर्णत्वाद् विभागस्य सुलक्षणत्वादैदौतोः स्वत्वं प्राप्नोतीति वाच्यम्, विवृततरावर्णत्वात् तयोः। न चैतयोमिथः स्वत्वमित्यपि युक्तं वक्तुम्, भिन्नस्थानत्वादिति। ननु प्रारम्भो यत्नस्येत्यादिकर्मणि प्रशब्दे व्याख्याते प्रयत्नशब्देनैव विवारादीनां व्युदासस्य सिद्धत्वात् किमास्यग्रहणेन? तथाहि-पूर्वं स्पृष्टतादयश्चत्वार उत्पद्यन्ते, पश्चान्मूर्ध्नि प्रतिहते निवृत्ते प्राणाऽऽख्ये वायौ विवारादयो बाह्या एकादश प्रयत्ना उत्पद्यन्ते, नैवम्-एवमुदात्तादीनां स्वसंज्ञा न प्राप्नोति, भिन्नप्रारम्भत्वात्; तस्मादास्यग्रहणमेव विवारादिव्युदासार्थं विधेयम्, प्रयत्नशब्दस्तु भावसाधन एव, तेन प्रारम्भे (भिन्नप्रारम्भे)ऽप्युदात्तादीनां
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy