SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४०८ बाक्महाकाव्ये [मुहाव] नृसिंहः पूर्वपुरुषो न्वपरार्कः स तेजसा । हन्तुं प्रथमदैत्यं नु डुढौके चरमासुरम् ॥ ८२॥ ८२. स मूलराजभरमासुरं प्राहारिं हन्तुं हुढौके । कीहक्सन् । नृसिंहो नरश्रेष्ठोत एव तेजसा प्रतापेनापरार्को द्वितीयादित्यः । पूर्वपुरुषो नु यथा प्रथमपुरुषो विष्णुसिंहो नरसिंहरूपधारी सन् प्रथमदैत्यं नु हिरण्यकशिपुमिव हन्तुं हुढौके ॥ मध्यलोकपतिरिपुमान्मध्यमपार्यवत् । अजयन्यौजसारेभे सोसमानरणोत्सवम् ॥ ८३॥ ८३. मध्यलोकपतिर्मर्त्यलोकस्वामी स मूलराजोसमानरणोत्सवं निरुपमं युद्धमारमे । यतो वीरपुमान् शूरनरस्तथाजघन्यौजसोत्कृष्टबलेन कृत्वा मध्यमपार्थवन्मध्यमस्तृतीयो यः पार्थः पाण्डवोर्जुनस्तत्तुल्यः ।। वीरपूर्वाः श्रेणिकृतास्तेन पूगकृताः परे । श्रेणिमतः पूगमतो न्वेकोप्यैक्षि स वैर्भयात् ॥ ४॥ ८४. तेन मूलराजेन पूर्वे च ते वीराश्च वीरपूर्वाः प्रथमशूराः परेपूगौः पूगाः कृताः पूगकृताः समूहीकृवा मृत्युभयेनान्योन्याश्रयणात्संयुक्तीकृता इत्यर्थः । कीदृशाः सन्तः । अश्रेणयः श्रेणयः कृताः श्रेणिकृता युद्धार्थ प्राहारिणा पङ्कीकृताः । स मूलराज एकोपि तैः परैर्भयादैक्षि । कीदृशः । अश्रेणिः श्रेणिर्मतः संमतः श्रेणिमतो नु । नुरत्रापि योज्यः । पक्षीभूत इवेत्यर्थः । एवं पूगमतो नु समूहीभूत ईवेत्यर्थः ॥ १ सी पराक स. २ ए सी णिगत:. १५ बी सी कसिपु. २५ सी पार्यपोडवो. ३५ सी गाः क. एसीपय में. ५९ सीर्य मा. ६५ सीटी वा स. ७वी "मिमतः. पील
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy