________________
( २४५ )
हन्यताम् । अहन्यत । जघ्ने जघ्नाते जघ्निरे । घानिषीष्ट, वधिषीष्ट । घानितासे, हन्तासे । घानिष्यते, हनिष्यते । अघानिष्यत, अहनिष्यत ।
विणवि घन । ४ । ३ । १०१ ।
1
जिवि परे हन्तेर्घनादेशो भवति । अघानि । अघानिषाताम् ' अद्यतन्यां वा त्वात्मने ' इति वा वधादेशे अवधिषाताम् पक्षे अहसाताम् । 'अकर्मका अपि सोपसर्गाः सकर्मका भवन्ति स्वामिना सुखमनुभूयते । लज्जाद्यर्या धातवोऽकर्मकास्तदुक्तम्" लज्जासत्ता स्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः " ॥१॥ लक्षणं त्वेतेषां फलव्यापारयोराधाराभेदेऽकर्मकत्वमाधारभेदे च सकर्मकत्वम्, तदुक्तम्
" फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः " ॥ २ ॥ 'अन्यच्च -
" धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोsकर्मिका क्रिया " ॥ ३ ॥
एवं च लक्षणमभ्यूह्य सकर्मकत्वम कर्मकत्वं च धातोर्वेदितव्यमिति ।