________________
(२४४ ) .
यत । भूयते त्वया । भूयेते भूयन्ते । भूयेत । भूयताम् । अभूयत । चक्रे चक्राते चक्रिरे । चकृषे चकृट्वे । स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां जिड् वा
।३।४।६९। स्वरान्ताद् ग्रहादेश्च धातोः भावकर्मविहितासु स्यसिजाशीःश्वस्तनीषु परासु अिड् वा भवति । कारिषीष्ट, कृषीष्ट । कारिता, कर्ता । कारिष्यते, करिष्यते । अकारिष्यत, अकरिष्यत । बभूवे । भाविषीष्ट, भविषीष्ट । भाविता, भविता । भाविष्यते, भविष्यते । अभाविष्यत, अभविष्यत ।
भावकर्मणोः । ३ । ४।६८ । भावकर्मविहितेऽद्यतन्याः सम्बन्धिनि ते परे धातोः निच भवति, तस्य च लुक् । अकारि अकारिषाताम् , अकृषाताम् अकारिषत, अकृषत । अकारिष्ठाः, अकृथाः । अभावि अमाविषाताम् , अभविषाताम् अभाविषत, अभविषत । गृह्यते । गृह्येत । गृह्यताम् । अगृह्यत । जगृहे । ग्राहिषीष्ट, ग्रहीषीष्ट । ग्राहिता, ग्रहीता । ग्राहिष्यते, ग्रहीष्यते । अग्राहिष्यत, अग्रहीध्यत । अग्राहि अग्राहिषाताम् , अग्रहीषाताम् । दृश्यते । दृश्येत । दृश्यताम् । अदृश्यत । ददृशे । दर्शिषीष्ट, द्रक्षीष्ट । दर्शिता, द्रष्टा । दर्शिष्यते, द्रक्ष्यते । अदर्शिष्यत, अद्रक्ष्यत । अदर्शि अदर्शिषाताम् , अदृक्षाताम् । हन्यते । हन्येत ।