SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ( २१२) संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे । ७।१। १२५ । ___समः संकीर्णेऽथे, प्रात् प्रकाशेऽर्थे, उतोऽधिके, नेः समीपे च कटो भवति । संकटः संकीर्णः, प्रकटः प्रकाशः, उत्कटोऽधिकः, निकटः समीप इत्यर्थः । ___ अवात् कुटारश्चावनते । ७।१। १२६ । अवशब्दादवनतेऽर्थे कुटारकटौ भवतः। अवनत इति अवकुटारः, अवकटः । नासानतितद्वतोष्टीटनाटभ्रटम् । ७ । १ । १२७ । अवाद् नासानतौ तद्वति चार्थे टीटनाटभ्रटा भवन्ति । नासाया नमनम्-अवटीटम् , अवनाटम् , अवभ्रटम्; तद्योगाद नासिका, पुरुषोऽपि तथोच्यते--अवटीटा, अवनाटा, अवभ्रटा नासिका । अरटोटः, अवनाटः, अवभ्रटः पुरुषः । नेरिनपिटकाश्चिचिचिकश्चास्य । ७।१। १२८ । निशब्दाद् नासानतौ तद्वति चार्थे इन पिट क इत्येते प्रत्यया भवन्ति । तयोगे च नेर्यथासंख्यं चिक चि चिक इत्येते आदेशा भवन्ति । चिकिनम् , चिपिटम् , चिकं नासानमनम् । चिकिना चिपिटा, चिक्का नासिका । चिकिनः, चिपिटः, चिक्कः पुरुषः । 'निशब्दाद् नीरन्धेऽय नासानतितद्वतोश्चार्थे विडविरीसौ प्रत्ययों वाच्यौ । निविडाः, निविरीसाः केशाः । निविडम्, निविरीसम् नासिकानमनम्, निविडा निविरीसा नासिका, निविडः निविरीसो नरः अवनतनासिकावानित्यर्थः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy