________________
(१७८) अतश्चातुरर्थिको वलः भवति, देशनाम्नि । शिखावलं पुरम् ।
रोऽश्मादेः।६।२ । ७९ । ... अस्माचातुरर्थिको रो भवति, देशनाम्नि। अश्मनां निवास:आश्मरः ।
प्रेक्षादेरिन् । ६।२।८० । अतश्चातुरर्थिक इन् भवति, देशे नाम्नि । प्रेक्षी । फलकी ।
तृणादेः सल् । ६ । २ । ८१ । अस्माचातुरर्थिकः सल भवति, देशनाम्नि । तृणसा । नदसा ।
काशादेरिलः । ६।२।८२ । अस्माच्चातुरर्थिक इलप्रत्ययो भवति, देशे नाम्नि । काशिलम् । वाशिलम् ।
अरीहणादेरकण् । ६ ।२।८३ । चातुरर्थिकोऽस्मादकण भवति, देशे नाम्नि । आरीहणकम् । खाण्डवकम् ।
सुपन्ध्यादेयः । ६।२।८४ । अतश्चातुरथिको देशनाम्नि न्यो भवति । सौपन्थ्यम् । सौवन्ध्यम् ।
. सुतङ्गमादेरिब् । ६।२।०५।
अस्माचातुरथिको देशे नाम्नि इञ् भवति । सौतङ्गमिः । मौनचित्तिः। . .
..