SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ "श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । लोकानुरागो विनयान किं लोकानुरागतः ॥ १ ॥ " अत्र कारणमालाऽलङ्कारः प्रवर्त्तते । २७- मालादीपकम् - " उत्तरोत्तरं एकधर्मेण अनेकधर्मिणां सम्बन्धः मालादीपकमलङ्कारः ।" उदाहरणं यथा " सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते । देवाकर्णय येन येन सहसा यद्यत्समासादितम् ॥ कोदण्डेन शराः शरैररिशिरस्तेनाऽपि भूमण्डलं । तेन त्वं भवता च कीतिरतुला कीर्त्या च लोकत्रयम् ॥ १॥" अत्र मालादीपकमलङ्कारो वर्त्तते । २८ - सारालङ्कारः- “उत्तरोत्तरमुत्कर्षो वस्तुनः सारालङ्कारः ।" उदाहरणं यथा "काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तलम् । तत्राऽपि चतुर्थोऽङ्कः, तत्र श्लोकचतुष्टयम् ॥ १॥" अस्मिन् श्लोके सारालङ्कारो वर्त्तते । २६ - परिसंख्याऽलङ्कारः - " प्रश्नादप्रश्नाद्वा तादृशस्यान्यस्य वस्तुनो निरासो भवेत् तदा परिसंख्याऽलङ्कारः ।” साहित्यरत्नमञ्जूषा - २०४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy