SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ यत्र प्रश्नाद् वा अप्रश्नात् तादृशस्य अन्यस्य पदार्थस्य निरासो भवेत् तत्र परिसंख्याऽलङ्कारो भवति । उदाहरणं यथा "कि भूषणं सुदृढमत्र यशो न रत्नं, कि कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं , जानाति कस्त्वदपरः सदसद्विवेकम् । अत्र परिसंख्याऽलङ्कारः प्रवर्त्तते । ३०- आक्षेपालङ्कारः-“यत्रोपमानस्य तिरस्कारः सआक्षेपालङ्कारः।" उदाहरणं यथा "अहमेव गुरुः सुदारुणामिति , हालाहल तात ! मा स्म दृप्यः । ननु सन्ति भवादशानि भूयो, - भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ १॥ अत्र आक्षेपालङ्कारो वर्त्तते । ३१- स्वभावोक्तिरलङ्कारः- “यत्र तत् तत् स्वभावमेव वर्णनं तत्र-स्वभावोक्तिरलङ्कारः।" उदाहरणं यथा "करारविन्देन पदारविन्दं , ___ मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं . बालं मुकुन्दं मनसा स्मरामि ॥ अत्र स्वभावोक्तिरलंकारः प्रवर्त्तते । साहित्यरत्नमञ्जूषा-२०५ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy