SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २२- विरोधाभासः- “यत्र आपाततः विरोधं प्रतिभासते तत्र-विरोधाभासोऽलङ्कारः।" श्लेषादिजन्यो विरोधश्चेत्, विरोधाभास भूयते। चेद् यदि श्लेषादिना भवति इति श्लेषादिजन्यो यदि विरोधः परस्परं अनुपत्तिस्तदा विरोधाभासः भवति । श्लेषहेतुकविरोधे विरोधाभासते इति भावः । प्रा ईषद् भासत इत्याभासः । विरोधश्चासा वाभासश्चेति विरोधाभासः । प्राचीनग्रन्थेषु विरोधो विरोधाभासश्चाभिन्न एव । वास्तविकविरोध-परिहारमूलक - श्लेषादिजन्य - विरोधज्ञानत्वं विरोधाभासत्वम् । उदाहरणं यथा "विश्वेश्वरोऽपि जनपालक! दुर्गतत्वं । कि वाक्षरप्रकृतिरप्यलिपीस्त्वमीश! ॥ अज्ञानवत्यपि सदैव कथंचिदेव । ज्ञानं त्वयि स्फुरति विश्वविकाशहेतोः ॥ १ ॥ अत्र विरोधाभासः अलङ्कारः प्रवर्त्तते । २३- विषमालङ्कारः- “यत्र असम्भावितस्यार्थस्य सम्बन्धः क्रियते स-विषमालङ्कारः।" उदाहरणं यथा "क्व चायं भूभागः क्व च गगनमेतद्व्यवहितं । तथाप्यम्भोराशिविकसति सितांशोः समुदये ॥ वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं । यदत्यन्तं भावान् घटयति विदूरानपि मिथः ॥ १॥" अत्र विषमालङ्कारो वर्त्तते । साहित्यरत्नमञ्जूषा-२०२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy