SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ गतधना अपि यथा धनहीना अपि यत् निर्धनस्य कुत्राऽपि नैव सन्मानम् । "माता निन्दति, नाभिनन्दति पिता, भ्राता न संभाषते, भृत्यः कुप्यति, नाऽनुगच्छति सुतः, कान्ता च नाऽऽलिङ्गते । अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमानं सुहृत्, तस्मात् द्रव्यमुपार्जयाशु सुमते ! द्रव्येण सर्वे वशाः ॥" एतादृशों दशायां अनुभावमाना अपि मानवाः त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः भवन्ति । अर्थात् निर्द्रव्या अपि तवानुग्रहात् सर्वान् अपि मोहयन्ति । अतः कारणाभावेऽपि कार्योत्पत्तिर्वणिता इति । अतोऽत्र विभावनाऽलङ्कारः। २१- विशेषोक्तिः- "यत्र कारणसत्त्वेऽपि कार्याभावस्तत्र विशेषोक्तिरलङ्कारः।" कारण विद्यमाने सति कार्यस्याभावो यत्र वर्तते तत्र विशेषोक्तिः अलङ्कारो भवति । उदाहरणं यथा"धनिनोऽपि निरुन्मादा, युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते, महामहिमशालिनः ॥" अत्र विशेषोक्तिः अलङ्कारः वर्तते । साहित्यरत्नमञ्जूषा-२०१४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy