SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अत्र सामान्यविशेषभावसम्बन्धमर्थान्तरमभिहितम्, अतः अर्थान्तरन्यासोऽलङ्कारः। महात्मसम्बन्धि-समस्तकार्यसुकरता प्रतिपादनेन सामान्येन निर्ग्रन्थकृतक भवाम्बुधिस्तरणं विशेषार्थस्य समर्थनात् अर्थान्तरन्यासस्य प्रतिपादनम् । २०-विभावनालङ्कारः- “यत्र हेतु विना कार्योत्पत्तिः वर्ण्यते तत्र विभावनालङ्कारः।" विनाऽपि कारणे कार्य यत्र स्यात् तत् विभावना। चेत् कार्य विनाऽपि कारणं स्यात् । यदि कारणं विना कार्यजन्यफलोत्पत्तिः तदा विभावनालङ्कारो भवति । सति कारणे निमित्त कार्यं भवतीति नियमः । अत्र तु तद् वैपरीत्यम् । विभाव्यते हेतुरस्यामिति विभावना बाहुलकादधिकरणे युच् प्रत्ययः । उदाहरणं यथा "चक्रिनिजितशत्रूणा-मुत्पदेऽरात्रिकं तमः ।" अत्र अन्धकारोत्पत्ती रात्रावेव तथाऽपि तस्योत्पत्ती रजनीं विना वर्णिता-इति विभावना । अन्यच्चाऽपि"गतधना अपि हि त्वदनुग्रहात् , कलितकोमलवाक्य सुधोर्मयः । चकितबालकुरङ्गविलोचना , जनमनांसि हरन्ति तरां नराः ॥ १ ॥ साहित्यरत्नमञ्जूषा-२००
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy