SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ५- “यत्रोपमेये उपमानस्य 'अभेदाध्यवसायः' तत्र रूपकालङ्कारः ।" यथा" संसार एष कूपः सलिलानि विपत्तिजन्मदुःखानि । इह धर्म एव रज्जुस्तस्मादुद्धरति निर्मग्नान् ॥ १॥ अत्र रूपकालङ्कारः प्रवर्त्तते । ६- “यत्र सादृश्यज्ञानतः स्मृतिः संजायते तत्र स्मृत्यलङ्कारः।" यथा "पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः।" अत्र स्मृत्यलङ्कारो वर्तते । ७- यत्र सादृश्यज्ञानतो भ्रान्तिः संजायते तत्र भ्रान्त्यलङ्कारः। यथा पलाशमुकुलभ्रान्त्या, शुकतुण्डे पतत्यलिः । सोऽपि जम्बुफलभ्रान्त्या, तमलि धर्तुमिच्छति ॥ १॥ अत्र भ्रान्त्यलङ्कारः प्रवर्तते । साहित्यरत्नमञ्जूषा-१८८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy