SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २ - "यत्र पूर्वपूर्वोपमेयस्य उत्तरोत्तरमुपमानता तत्र रसनोपमालङ्कार : ।" यथा चन्द्रायते शुक्लरुचाऽपि हंसो, कान्तायते स्पर्शसुखेन वारि, हंसायते चारुगतेन कान्ता । यथा ३ - " एकस्यैव वस्तुनो यदोपमानत्वमुपमेयत्वं च तदाऽनन्वयालङ्कारः । " वारीयते स्वच्छतया विहायः ॥ १ ॥ यथा "राजीवमिव राजीवं, जलं जलमिवाऽजनि । चन्द्रश्चन्द्र इवातन्द्रः, शरत् समुदयोद्यमे ॥ १ ॥ " अत्र अनन्वयालङ्कारः प्रवर्त्तते । ४- " यत्रानुक्रमेण द्वयोरुपमानोपमेयत्वं तत्र उपमेयोपमालङ्कारः । " “गिरिरिव गजराजोऽयं, गजराज इवोश्चकैविभाति गिरिः । निर्भर इव मदधारा, मदधारेवास्य निर्झरः स्रवति ॥ १ ॥ अत्र उपमेयोपमालङ्कारः वर्त्तते । साहित्यरत्नमञ्जूषा - १८७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy