SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ऽधिकः स्वीकृतः । 'काव्यादर्श' दण्डिना धर्मोपमा, वस्तूपमा, विपर्यासोपमा अन्योन्योपमादयः द्वात्रिंशद् भेदाः उपमायाः प्रोक्ताः । तत्र अतिप्रसिद्धत्वात् प्रथमं उपमालङ्कारः१ - " उपमानोपमेययोर्हृद्यं साधर्म्यं उपमालङ्कारः ।" स च द्विविधः । पूर्णोपमालङ्कारः प्रतीयमानोपमालङ्कारःश्चेति । यत्र उपमानमुपमेयं साधारणधर्मः सादृश्यं च प्रोक्तानि स्युः तत्र पूर्णोपमालङ्कारः । एतेषामन्यतमस्यानुक्तं प्रतीयमानोपमालङ्कारश्चेति । पूर्णा यथा 1 गत्या विभ्रममन्दया प्रतिपदं या राजहंसायते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम् । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया, तां कुन्दार्हदतीं त्यजञ्जिनपती राजीमतों पातु वः ॥ अत्र पूर्णोपमालङ्कारः प्रवर्तते । प्रतीयमाना यथाअनाधिव्याधिसंबाध-ममन्दानन्दकाररणम् ॥ न किञ्चिदन्यदस्तीह, समाधेः सदृशं सखे ! ॥ अत्र प्रतीयमानालङ्कारः वर्त्तते । साहित्यरत्नमञ्जूषा-१८६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy