SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ (२) गौडी-"प्रोजो गुणानुरञ्जिका सघनसमासा उद्धतबन्धबन्धुरा-गौडीरीतिः। पञ्च-षट्पदानां समाससद्भावात् गौडीया। यथा वेणीसंहारे "चञ्चद्-भुजभ्रमित-चण्डगदाभिघातसञ्चूणितोरु-युगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोरिणतशोणपाणि रुत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥ अन्यच्च"दंष्ट्रालः स्फुटकुन्दकुड्मलशतैः जिह्वाल-उल्लासिभिः, किं किंल्लिद्रुमपल्लवैः शितमुखैः प्रेखन्नखः किंशुकैः । वल्लीजालविशालबालधिरसावत्रो अयन्ताचलो, बन्धकोद्धतलोचनः प्रकुरुते शार्दूलविक्रीडितम् ॥ काव्यलक्षणो वृत्तीनिरुपयिष्यन्नादौ मधुरो वृत्ति व्याचष्टे । विलासविन्यासक्रमो वृत्तिः वचनविन्यासक्रमो रीतिः वेषविन्यासक्रमश्च प्रवृत्तिरिति । काव्यमीमांसायां लक्षणानि वरिणतानि "वेदभाषानुकरणात्, तथाचारप्रवर्तनात् । संक्षेपेण समाख्याता, वृत्तिरीतिप्रवृत्तयः ॥१॥ साहित्यरत्नमञ्जूषा-१६६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy