SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अत्र निष्ठतरङ्गवर्णनमनुचितम् । तरङ्गस्य सम्बन्धः समुद्रसरित्प्रभृतिषु योग्यः । पल्लवयतीति अनुचितम् । प्रसिद्धविरुद्धत्वम् यत्र प्रसिद्धया विद्यया शास्त्रेण वा विरुद्ध वर्ण्यते तत्र प्रसिद्धविरुद्धत्वम् । यथा "न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः "। इयं कन्दर्पस्य कामस्य यः प्रतापः तस्य धवला द्युतिः शास्त्रेषु काव्येषु वा प्रतिपादिता । अत्र प्रतापस्य रक्तवर्णरूपां कविप्रसिद्धिमपहाय श्वेतो वर्णः प्रतापस्य प्रतिपादितः इति कविसमयविरुद्धमेतत् । श्रीकेशवमिश्रेणालङ्कारशेखरे प्रोक्तम् असतोऽपि निबन्धेन, सतामप्यनिबन्धनात् । नियमस्य पुरस्कारात्, सम्प्रदायस्त्रिधा कवेः ॥ विद्याविरुद्धस्योदाहरणं यथा'केतकी शेखरे शम्भो-र्धत्ते चन्द्रकला तुलाम् ।' अत्र केतकीपुष्पं शम्भोः पूजायां वर्जितम् । अतः अत्र केतकेः वर्णनं पुराणादिविद्याविरुद्ध वर्त्तते । यथा-कथितं कात्तिकमाहात्म्ये साहित्यरत्नमञ्जूषा-१५७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy