SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ हेत्वाभाववत्-निर्हेतुकम्- यथा गृहीतं येनासीः परिभवभयानोचितमपि , प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयात् , विमोक्षे शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥१॥ अत्र द्वितीयशस्त्रपरित्यागे हेतुर्नोपात्तः । दुष्कमम् अत्र लोकशास्त्रविरुद्धक्रमाभिधानत्वं दुष्त्रमत्वम् ।" तस्योदाहरणं यथा- हे प्रभो ! त्वद् भक्तः गच्छेयं नरकं स्वर्गमेव वा ? । ___ हे प्रभो ! त्वद् भक्तः अहं नरकं गच्छेयं स्वर्ग गच्छेयं वा' इति सम्भावना। प्रभोभक्तस्य पूर्वं स्वर्गगमनसम्भावना समुचिता, ततश्च नरकगमनरूपा। अत्र तु पूर्वं नरकगमनरूपा समुपातेति दुष्क्रमाख्योऽत्र दोषः । नित्योऽयं दोषः सहृदयोगः बीजं दूषणतायाः । अनौचित्यम् "अयोग्यसम्बन्धत्वं अयोग्यत्वम् ।" 'कीतिलतां तरङ्गयति यः सदा' यः सदा यशोवली तरङ्गितां करोति । साहित्यरत्नमञ्जूषा-१५६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy