SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ एवोत्कर्षार्थमारोपः । हेयोपादेयत्वविरोधो दूषकताबीजं, नित्योऽयं दोषः । पुनरुक्तम् प्रधिगतेऽर्थे पुनरभिधानं पुनरुक्तम् । अथवा "अधिगते प्राप्ते वाऽर्थे पुनरभिधानं पुनरुक्तम्" । अर्थप्रतीतत्त्वेऽपि पुनस्तत् प्रतिपादकत्वं पुनरुक्तत्वम् । अत्र वा शब्देन प्रतिपन्नत्वे सति पुनस्तेनैव प्रतिपादने पुनरुक्तत्वम्, किन्तु अर्थेन प्रतिपन्नस्य प्रतिपादने तु अपुष्टत्वम् । यथा तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दु- रिन्दुः क्षीरनिधाविव ॥१॥ अत्र इन्दुरिति पुनरुक्तम् तदर्थस्य राजेन्दुरित्यत्रावगतत्वात् । " कुतस्ततोपमा यत्र पुनरुक्तः सुधाकरः ।" तत्रोपमा सादृश्यं कुतः कस्मात् यत्र सुधाकरः चन्द्रः पुनरुक्तः व्यर्थः । अत्र कुत इति पदेनोपमाभावप्रदर्शनेन चन्द्रव्यर्थे सिद्धेऽपि पुनः " पुनरुक्तः सुधाकरः" इति वाक्योपादाने पुनरुक्तता । यद्वा "वक्त्रं केनोपमीयते " इत्यस्यावृत्तिः । तेन वक्त्रं केनोपमीयत " कुतस्तत्रोपमा " इति वाक्यद्वयं पुनरुक्तम् । न चास्यापुष्टत्वदोषेऽन्तर्भावः । साहित्यरत्नमञ्जूषा - १५५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy