SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ व्यक्तिश्चेति कान्त्यर्थव्यक्ती तयोः संग्रहः क्रमेण शृङ्गारे प्रसादे च भवति शृङ्गारे कान्तिः प्रसादे चार्थव्यक्तिरन्तर्गतेति भावः । ननु वामनेन दीप्तरसत्वं कान्तिरिति व्याहत्य 'प्रेयान्सायमपाकृतः सशपथं पदानतः कान्तया' इत्याद्य दाहृतम् । तत्रैष्यौत्सुक्यानुभावस्य दीप्तेवर्णनं न तु शृंगारदीप्तिरिति । अनुभाववर्णनस्य शृंगारवर्णनाभिन्नत्वम् । गुणसंख्यामुपसंहरति अमीति पुंसि यथा शौर्यादयो गुणाः वर्तन्ते तथैव काव्ये, अमी पूर्वोक्ता गुणाः श्लेषप्रासादयो दशैव वर्तन्ते । दशगुणा वामनस्य मते स्वाभिमतास्त्वष्टावेव । यथा श्लेषः प्रसादः समता, समाधिः, माधुर्यम्, प्रोजः, सौकुमार्यम्, उदारतेति । सरस्वतीकप्ठाभरणोक्तचतुर्विंशतिगुणानामत्रैवान्तर्भावः । ॥ इति गुणनिरूपणं प्रोक्तम् ॥ साहित्यरत्नमञ्जूषा-१४३ ..
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy