SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अत्र कारणभूतस्य रिपुहननकर्तृत्वानाश्रयस्य खड्गस्य रिपुहननकर्तृत्वाश्रयरूपेण वर्णनादर्थगत प्रोजः । सौकुमार्यम्____ शब्दान्तरस्य परिवर्तनाद् विनिमयाद् वा हेतोः परुषवर्णाभावः सौकुमार्यम्, अमङ्गलशब्दपरित्यागेन तत् पर्यायवाचिशब्दप्रयोगः सौकुमार्यमिति भावः । अमङ्गलजनकाश्लीलत्वाभावो यत्र तत्र सौकुमार्यम् । यथा-स पुरुषः मरुत्सखं समालिङ्गय कथाशेषतां यातः । अत्र 'अग्नौ प्रविश्य मृतः' इति भावः, किन्तु अमङ्गलशब्दस्याभावरूपेण पर्यायपदान्तरैवर्णनं कृतम् । उदारता विदग्धप्रयोज्यत्वमुदारता, सा च न ग्राम्यदोषा भावरूपा अपि ग्राम्यदोषाभावात् । वामनस्य मते "अविकटत्वमुदारता" पदानां नृत्यत्प्रायत्वं चाविकटत्वमुदारता । अविकटत्वं प्रोजस्यान्तर्गतं काव्यप्रकाशादि मते । व्यङ्गयार्थप्रत्यायकत्वं उदारता इति दण्डी व्याचष्टे । वामनोक्तदशगुणान्तर्गतयोः कान्त्यर्थव्यक्तिगुणयोः काचिदन्तर्भावं दर्शयति--शृङ्गारे चेति । कान्तिश्चार्थ साहित्यरत्नमञ्जूषा-१४२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy