SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (६) कविप्रौढोक्तिसिद्धवस्तुव्यङ्गघालङ्कारः । तस्यो दाहरणं यथा रजनीषु विमलभानोः, करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डल मखिलं तव कीर्तिसन्ततिः सततम् ॥ १ ॥ अत्र कविप्रौढोक्तिसिद्धवस्तुना चन्द्रकलाजालादधिककीर्तिकलापस्येति कालप्रकाशितं व्यतिरेकालङ्कारो व्यज्यते इति । (७) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्ग्यवस्तु । तस्यो - दाहरणं यथा देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्तादेवं जल्पन्ति तावत् प्रतिभटपूतनावत्तनः क्षत्रवीराः । यावन्नायाति राजन् ! नयनविषयतामन्तकत्रासिमूर्ते ! मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गः ॥ १ ॥ अस्मिन् श्लोके कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण त्वय्युद्यतकृपाणे सति परेषां का जीवनस्याशेति वस्तु व्यज्यते इति । साहित्यरत्नमञ्जूषा - १२३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy