SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अत्र नेत्रकोणशोणद्युतेर्युगान्तदहनोपमया शत्रूणां सम्पत्तयो भस्मीभूतं भविष्यन्तीति वस्तु व्यज्यते । (४) स्वतः संभवि - अलङ्कारव्यङ्गयालङ्कारः । तस्योदाहरणं यथा उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलललना - चूडामरिणशासनेन मदनेन ॥ १ ॥ - अस्मिन् श्लोके समुच्चयालङ्कारेण अतिशयोक्तिरलङ्कारो व्यज्यते । (५) कविप्रौढोक्तिसिद्धवस्तुव्यङ्गयवस्तु । तस्योदाहरणं यथा सज्जयति सुरभिमासो " न चार्ययति युवतिजनलक्ष्यशते । अभिनवसहकारमुखान् , नवपल्लवपत्तलान् श्रनङ्गस्य शरान् ॥ १ ॥ श्लोकेऽस्मिन् वसन्त इषुकारः, कामदेवो धानुष्कः, लक्ष्यं स्त्रियः, कुसुमानीषवः, इत्यादीनि वस्तूनि कविप्रौढोक्तिसिद्धानि । तैः प्रकाशीभवत्कामभोगक्रीडनरूपं वस्तु व्यज्यते इति । साहित्यरत्नमञ्जूषा - १२२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy