SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं क्रमेण यथा १. दानवीरः दानेषु वीरः दानवीरः, कर्णादयः । यथाकियदिदमधिकं मे यदविजयार्थयित्रे । कवचमरमरणीयं कुण्डले चार्ययामि ॥ अकरुणमवकृत्य द्राक् कृपारणेन निर्य द्वहलरुधिरधारं मौलिमावेदयामि ॥१॥ २. धर्मवीरः धर्मषु वीरः धर्मवीरः ऋषभादयः । यथाराज्यं च वसु देहं च, भार्या भातृसुताश्च ये । यच्च लोके ममायत्तं तद् धर्माय सदोद्यताम् ॥२॥ आदिमं पृथवीनाथ-मादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभस्वामिनं स्तुमः ॥ ३ ॥ [इति सकलार्हत्स्तोत्रे प्रोक्तमिदम्] ३. युद्धवीरः युद्धेषु वीरः युद्धवीरः, श्रीरामचन्द्रादयः । यथाभो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते । कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किञ्चिद्गतम् ॥ नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजापङ्किलः । पत्त्री नैष सहिष्यते मम धनुाबन्धबन्धकृतः ॥१॥ साहित्यरत्नमञ्जूषा-१०९ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy