SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पुन: कीदृशम् ? ददददम् दः = सत्यम् → सत्योऽ(?)त्रीशो ह्लादिनी च वामगुल्फगतस्तया शूली कुबेरो दाता च दकार: [३६] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिरूपित:, दम् = ज्ञानम् → दं क्लीबे पानवैराग्यकलत्रेष्ववलोकने भेद्यमूलस्त्वयं मूके दुहिते द्रावके शुचौ दर्शनज्ञाननेत्रेषु - [८३/८४] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, दश्च तद् दञ्चेति ददम्, तद् ददते = प्रयच्छति इति क्विप् दददद् = सत्यज्ञानदाता क्रोधलोभभयहास्यशून्यत्वात् → ददि दाने - [७२७] इति हैमधातुपाठः, तम् । पुन: कीदृशम् ? दम् + द: = दानशौण्ड: अतीवोदार इत्यर्थ: → दो दाने पूजने क्षीणे दानशौण्डे - [६७] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, संवत्सरं यावत् सुवर्णादिदातृत्वात्, तम् । __न च हिरण्यादीनां दाने स्याद् रक्तस्यानुरक्तेरभिवर्धनमिति वाच्यम् तदानस्य पूततमत्वात् विरक्तिजनकत्वाच्च, अनीतिजन्यदानादेवाऽनर्थोत्पत्तिरिदं तु नैतादृक् किन्तु शुच्येवेति बिभणिषुराह । पुन: कीदृशम् ? ददम् + दम् = शुचि → दं क्लीबे दानवैराग्यकलत्रेष्ववलोकने भेद्यलिङ्गस्त्वयं मूढे ग्रहान्तरे द्रावके शुचौ - [४८/४९] इति पूर्वोक्तकविराघवोक्तेः, दम् = दानम् , दं कलत्रं बुधैः प्रोक्तं दानच्छेदनदातृषु । [१४] इत्येकाक्षरकोषोऽज्ञातविद्वन्निर्मित:, दं दं यस्य स दद: = पावनदान: विरक्तिवर्धकत्वात्, तम् । पुन: कीदृशम् ? ददम् - दा: = देवा: द: = पूजनम् → दो दाने पूजने क्षीणे दानशौण्डे च पालके देवे - [६७] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, दानां दो यस्य स दद: = देवपूजन: देवैरर्चित इत्यर्थ: महेन्द्रर्महितत्वात्, तम्, शतक्रतवोऽप्यर्चयन्ति यं शुभ्रभावादथान्यसुमनसां का कथा ?। पुन: कीदृशम् ? दददम् न् द: = भव: संसार इत्यर्थः → दो वधे भववालयो: * [८१] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, दम् = कलत्रम् पत्नीत्यर्थ: → दंपल्याम् - [२५] इत्यनेकार्थतिलक: सचिवमहीपकथित:, दम् = वैराग्यम् → दं क्लीबे दानवैराग्य- [४८] इत्येकाक्षरकाण्ड: कविराघवप्रणीत:, दश्च दञ्चेति ददे तयोर्दै यस्य स दददः = संसारस्त्यनासक्तः आजन्मविरक्तत्वात् कामभोगैर्निविण्णत्वात्, तम् । [द:] श्रीसुविधिजिनस्तुतिः ६९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy