________________
पुनः कीदृशम् ? खखखम् • खः = अपवर्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि अवसानेऽपवर्गे ← [ २४/२५] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, खम् सुखम् खं सुखं च प्रकीर्तितम् ← [८] इत्येकाक्षरकोश: पण्डितमनोहरकृतः, खम् = संवेदनम् → खमिन्द्रिये व्योम्नि पुरे शर्मणि त्रिदशालये क्षेत्रे संवेदने ← [ २- १] इति शब्दरत्नसमन्वय: शाहराजमहाराजरचितः, खस्य खमिति खखम्, खखस्य खं यस्य स खखखः = शिवशर्मसंवेदनकर्ता परमानन्दनीरधिनिमग्नत्वात्, तम् ।
मुक्तौ शिवशर्मानुभूत्याऽवबुध्यते सत्यमेव कैवल्यात् तदेवाह ।
पुनः कीदृशम् ? खखम् - खम् = सत्यम् खम् = संपत् → खमिन्द्रिये सुखे व्योम्नि नक्षत्रे क्षेत्रपालने कृपाफलकयोः शून्यबिन्दौ संवेशरङ्कयोः सूर्ये वर्णे नृत्ये सत्ये वन संपदि ← [ ४५/४६ ] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, खमेव खं यस्य स खखः = सत्यस्वरूपसंपत्स्वामी सर्वज्ञत्वात्, तम् ।
=
पुनः कीदृशम् ? खखखम् खः नृपतिः खशब्दोऽर्के वितर्के व्योम्नि वेदने प्रश्ननिन्दानृप ← [२४] इति पूर्वोक्तविश्वशम्भुवचनाद्, खम् = नक्षत्रम् → खमिन्द्रियसुखव्योमनक्षत्र ← [२०] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथविहितः, खः = नभोमणिः सूर्य इत्यर्थः वर्तते खश्च भास्करे ← [१२] इत्येकाक्षरनाममाला सुधाकलशमुनिनिर्मिता, खा एव खानीति खखानि तत्र ख इव यः स खखखः = नृपतिनक्षत्रनभोमणिः अतिशयतेजस्वित्वाद्, तम् ।
--
पुनः कीदृशम् ? खखखम् - खम् = रङ्कः निर्धन इत्यर्थः → खमिन्द्रिये सुखे व्योम्नि नक्षत्रे क्षेत्रपालने कृपा- फलकयोः शून्यबिन्दौ संवेशरङ्कयोः ← [ ४५] इति पूर्वोक्तैकाक्षरीनाममालोक्तेः, ख: दीनः खः स्यादिह खगराजो नभोगतौ निश्चये तथा दीने ← [१८] इत्यजिरादि- एकाक्षरीनाममालाऽज्ञातकृता, खम् = कृपा → खमिन्द्रियसुखव्योमनक्षत्रक्षेत्रपट्टणे कृपाफलकयोः ← [ २०/२१] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथरचितः, खञ्च खश्चेति खखौ तयोरुपर्यपि खम् = कृपा यस्य स खखखः = रङ्कदीनयोः कृपावर्षक: परमकृपालुत्वात्ं सर्वेष्वपि जीवेषु समान दृष्टित्वाच्च, तम् ।
पुनः कीदृशम् ? खम् - खः = भुक्तिदायकः, तम् → खकारं जाह्नवीबीजं
[ : ] श्रीअजितनाथस्तुतिः
२७