SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इत्येकाक्षरनाममाला सुधाकलशमुनिप्रणीता, क एव क इति ककः = आत्मसुवर्णम् तस्मिन् - तस्य विशुद्धौ क इव य इति कककः = आत्महेमहुताशनः । पुन: कीदृश: ? कः = कः = भूपाल: → को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे कामग्रन्थौ चक्रिणि च पतत्रिपार्थिवे - [१-१] इत्यभिधानरत्नमाला मेदिनीकरनिर्मिता (मेदिनीकोश:), अयोध्यानगर्या अधिपतित्वात् । पुनः कीदृश: ? कक: • कः = सितवर्ण: → को ब्रह्मा अनिलार्काग्निचित्तधीयमके किषु विष्णा(ष्ण्वा)वाहनशब्देऽब्धौ सितवणे . [१७] इति नानार्थ रत्नमालेरुगपदण्डाधिनाथरचिता, कम् = रुधिरम् → कं शुक्रे रुधिरे - [३६] इत्येकाक्षरीनाममाला कालिदासव्यासप्रथिता, कः कं यस्य स कक: = शुक्लशोणित: तीर्थकृतामतिशयविशेषात् । __पुन: कीदृशः ? कक: - कम् = सुखम् → कं सुखञ्च प्रकीर्तितम् - [२] इत्येकाक्षरकोशोऽज्ञातविद्वत्कृत:, कः = सागर: → को ब्रह्मा अनिलार्काग्निचित्तधीयमकेकिषु विष्णा(वा)वाहनशब्देऽब्धौ - [१७] इति नानार्थरत्नमालेरुगपदण्डाधिनाथरचिता, कस्य क इति ककः = सुखसागर: आत्मसौख्यनीरधिनिमग्नत्वात् । पुन: कीदृश: ? कककः = कः = कन्दर्पः → क: स्वर्गे स्मरसूर्ययो: . [९] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनविरचित:, कः = अग्नि: → को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाग्निषु - [२१] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, क: = पर्जन्य: → कः स्याद्रुते महे बुझे मारुते शमने वने सितवर्णे मयूरे च हठे चाटुनि वारिदे - [२५] इति पूर्वोक्तामात्यमाधववचनाद्, क एव क इति कक: = कन्दर्पकृशानुः तत्र-तदुपशमने क इव य इति ककक: = मनोजज्वलनजीमूत: मदनदमनत्वात् । पुन: कीदृश: ? कक: - कः = स्वर्ग: → को ब्रह्मण्यर्कवाय्वग्निशमनस्वर्गकेकिषु — [२०] इत्येकाक्षरकाण्ड: कविराघवरचितः, कम् = सुखम् → कं सुखेऽपि प्रकीर्तितम् - [३] इत्येकाक्षरकोषो महाक्षपणकरचितः, कस्य कं स्याद् यस्मात् स ककः = सुरालयसौख्यप्रदाता । पुन: कीदृश: ? कक-ककः । [कः] श्रीऋषभजिनस्तुति:
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy