________________
अन्वयः - कककः [दुःखजलदसमीरः] ककक: [आत्महेमहुताशन:] कः [भूपाल:]
कक: [शुक्लशोणित:] ककः [सुखसागरः] ककक: [मनोजज्वलनजीमूतः] ककः [सुरालयसौख्यप्रदाता] कक-कक: [आदित्यवदनसर्वासुमत्सखा] कक: [सुविशुद्धचेतन:] क: [चक्री] क: [दक्षः] श्रीआदीश: [श्रीयुगादिदेव:] न: [अस्माकम् श्रिये [लक्ष्म्यै] अस्तु [भवतात् ।
जिनेन्द्रस्तोत्रम्