SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पुन: कीदृशम् ? ञम् - ञ: = प्राज्ञः ञः प्राज्ञपटगायने ← [ ९ ] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातविहिता, विशिष्टबुद्धिरित्यर्थः संसारपारगत्वान्मन्दमतेः संसारोक्तत्वात् तथा चार्षम् → एस संसारे त्ति पवुच्चति मंदस्स अवियाणओ ← [ ४९ ] इत्याचाराङ्गसूत्रे, तम् । पुनः कीदृशम् ? झजम् झः = रविः झो रवावपि निर्दिष्टः ← [१०] इत्येकाक्षरकोशो महाक्षपणककृतः, जम् = तेज: जं कटीभूषणे पन्यां तेजस्यम्बुनि ← [३३] इत्येकाक्षरकाण्डः कविराघवग्रथितः, झ इव जं यस्य स झजः = तपनतेजाः सूर्यवद् दीप्ततेजा इत्यर्थस्तथा च पारमर्षम् → सूरो इव दित्ततेया ← [२-२-६४] इति द्वितीयाङ्गे तथा सूरो इव दित्तते ← [११९] इति कल्पसूत्रे च, तम् । पुनः कीदृशम् ? छचम् छः = अब्जम् कमलमित्यर्थः → छो भान्वाच्छादनाब्जेषु ← [२५] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथगुम्फितः, चः = मुखम् → चश्चञ्चुश्चारणोऽर्चिर्मूखो ? (मुखं) रवि: ← [३३] इत्येकाक्षरनाममाला सौभरिभणिता, छ इव चो यस्य स छचः = नलिनाननः परमसौम्यत्वात्, तम् । पुनः कीदृशम् ? ङघम् डंम् = सुखम् ङं वितानं सुखम् ← [३२] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, घः = अम्बुधिः समुद्र इत्यर्थः घो वाद्याम्बुधराम्बुधौ ← [८] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातप्ररूपिता, डस्य घ इति ङघः = सुखसमुद्रः अनन्तसुखवानित्याशयः अपवर्गोपलब्धेस्तत्रैव तस्य सत्त्वात् तदुक्तं शास्त्रवार्तासमुच्चये सुखाय तु परं मोक्षो जन्मक्लेशादिवर्जितः ← [८/२२] इति, तम् । अथ प्रथमा स्तुतिर्न केवलं श्रीकलिकुण्डपार्श्वस्यैवापितु सामान्यजिनवरस्यापि तदित्थम् - ‘धद !' अत्र श्लेषः कर्तव्यः, 'ध द' इति । धः पुंसि धर्मिके ? ( धार्मिके) ← [ ८६ ] ध ! ं धः = धार्मिकः इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, तस्य सम्बोधने । मङ्गलाचरणम् १३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy