SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नम् + नः = जिन: → नकारो जिनपूज्ययो: - [१३] इति विश्वलोचनकोश:, तम् । 'शवलम्' अत्रापि श्लेष: कृत्य: ‘शव लम्' इति । शव = गच्छ → शव गतौ - [हैमधातुपाठः-४५९] पञ्चम्यां मध्यमपुरुषैकवचने प्रयोग:, हे ध ! = हे धार्मिक ! त्वं नम् = जिनम् शव = गच्छ तीर्थकृतां शरणं याहीत्याशय:, यद्वा गत्यर्थकानां प्राप्त्यर्थकत्वाज्जिनेश्वरमवाप्नुहीत्याशयः। कीदृशं नम् ? लम् - ल: = विमल: → विमलो लघुः ...लकारक: - [५२] इति प्रकारान्तरवर्णनिघण्टुः, द्रव्यभावाभ्यां नैर्मल्यं विज्ञेयम्, तम् । कीदृश हे ध ! ? ह ! • हः = शूरः → ह: कामशूरगमने [१५] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातरचिता, तस्य सम्बोधने । पुन: कीदृश ! ? फप ! • फ: = न्याय: → फोऽपारदर्शने देवे न्याये - [८४] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, पम् = हेम सुवर्णमित्यर्थः → पं क्लीबे हेम्नि + [५४] इत्येकाक्षरकाण्ड: कविराघवविहितः, फस्य पं यस्य स फप: = न्यायनिष्कः न्यायोपार्जितकाञ्चनवानित्यर्थः, धार्मिकस्य न्यायनिष्ठत्वात्, तस्य सम्बोधने । पुन: कीदृश ! ? द ! - द: = दाता → दो दाता - [६२] इत्येकाक्षरनाममाला सौभरिकृता, तस्य सम्बोधने । पुनः कीदृश ! ? ण ! - णः = योग्य: → णो निर्गुणे जपे योग्ये 6 [५८] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, धर्मायार्हत्वात्, तस्य सम्बोधने । पुन: कीदृश ! ? गख ! + गम् = वरम् श्रेष्ठमित्यर्थः → गं च वादित्रं शरणं वरम् - [२७] इत्येकाक्षरनाममाला सौभरिगुम्फिता, खम् = पुण्यम् → खकारं जाह्नवीबीजं स्फटिकं पापनाशनं भोगमोक्षप्रदं पुण्यम् - [१७] इत्येकाक्षरनाममालाऽज्ञातभणिता, गं खं यस्य स गवः = प्रशस्यपुण्य: अन्यथा धर्मानुपलब्धेः, तस्य सम्बोधने । फलितार्थः, हे ध ! ह-फपादिविशेषणैर्विशिष्ट ! त्वं नं सपादिविशेषणे जिनेन्द्रस्तोत्रम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy