________________
अथासंसारिण एव तत्त्वाच्छ्रेष्ठत्वं तदाह ।
पुनः कीदृशम् ? बम् - ब: = वर: श्रेष्ठ इत्यर्थः → बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे - [८७] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, तम् ।
पुन: कीदृशम् ? नम् = न: = नेता → नेता नश्च समाख्यात: [२२] इत्येकाक्षरकोश: पुरुषोत्तमदेवभर्णित: चतुर्धासङ्घनायकत्वात्, तम् ।
पुन: कीदृशम् ? थतम् - थम् = बहुलम् → थं विषं कर्म बहुलम् - [६१] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, तम् = पुण्यम् → तश्चौरामृतपुच्छेषु म्लेच्छे च कुत्रचिद् अपुमास्तरणे पुण्ये - [१३/१४] इति मेदिनीकोशो मेदिनीकरप्ररूपित:, थं तं यस्य स थत: = पुष्कलपुण्य: आर्हन्त्यात् तस्य पुण्यातिशायित्वात्, तम् ।
पुन: कीदृशम् ? ढम् - ढः = विमत्सर: मात्सर्यरहित इत्यर्थः → ढः स्वभावे विमत्सरे - [५७] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, द्वेषशून्यत्वाद् तस्य तत्पर्यायवाचित्वात् तदुक्तं प्रशमरतिप्रकरणे → परिवादमत्सरासूया: वैरप्रचण्डनाद्या नैके द्वेषस्य पर्याया: 6 [१९] इति, तम् ।
पुनः कीदृशम् ? डठम् - ड: = राग: → डशब्द: पुंसि डिण्डीरे हस्ते चापि भगन्दरे पिशाले पथिके काले रागे च परिकीर्त्यते - [६०] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, ठः = क्षय: → ठ: पुमान् वृषभे शून्ये हासे त्रासे क्षये - [६७] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, डस्य ठो यस्य स डठः = रागक्षय: रागरहित इत्यर्थ: संक्लेशशून्यत्वात् तस्य तज्जनित्वात् तच्च अष्टकप्रकरणप्रारम्भे ध्वनितम्, तम् ।
उभयविशेषणाभ्यामर्हतो राग-द्वेषारिहन्तृत्वमुक्तमेतेन → रागद्दोसारीणं हन्ता * [१३] इति चतुःशरणप्रकीर्णकवचनमपि व्याख्यातम् । ___पुन: कीदृशम् ? टम् - ट: = स्थिर: स्थिरैकस्वभाव इत्यर्थ: → ट: स्थिरे 6 [४३] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, मेरुवदप्रकम्पत्वात्तदुक्तम् → मंदरो इव अप्पकंपे - [११९] इति कल्पसूत्रे, तम् ।
जिनेन्द्रस्तोत्रम्