________________
श्वेतम् ← [४७] इत्येकाक्षरनाममालाऽज्ञातभणिता, ष: = हृद् → हृद् वामबाहुगः षडानन: षकारश्च ← [४९] इत्येकाक्षरीमातृकाकोशोऽज्ञातप्रोक्तः, सं षो यस्य स सषः = शारदसलिलवत् शुद्धान्तःकरण इत्यर्थस्तथा चार्षम् → सारदसलिलं वसुद्धहियया ← त [२-२-६४] सूत्रकृताङ्गे, तम् ।
पुनः कीदृशम् ? शवलम् शम् = स्वर्गः स्वर्गेश: ← [ ६८ ] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथप्ररूपितः, वम् = सुखम् वं सुखम् ← [ ८८] इत्येकाक्षरनाममाला सौभरिप्रणीता, शस्य वमिति शवं तद् लाति = ददाति इति शवलः = स्वः शर्मराता स्वर्गसुखदायक इत्यर्थः ननु कृतमनेन जीवस्यैव सुखदुःखहेतुभूतशुभाशुभकर्मकृत्त्वात् → शुभाशुभानि कर्माणि स्वयं कुर्वन्ति देहिनः स्वयमेवोपकुर्वन्ति दुःखानि च सुखानि च ← [ ९०] इति लोकतत्त्वनिर्णयवचनादिति चेत्... ? न तत्प्रणतेस्तत्प्राप्तेः ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र ! तेऽप्यामरीं संपदमाप्नुवन्ति ← [३५] इत्यपि लोकतत्त्वनिर्णयस्यैवोक्तेरर्हन्नतेस्तदवाप्तेस्तेनैव तत्प्रदत्तमित्यस्यैवोच्यमानत्वादित्यलमधिकेन,
तम् ।
पुनः कीदृशम् ? रम् रः = ईश्वरः रश्च प्रकीर्तित: - ईश्वरे ← [२६/२७] इत्येकाक्षरकोषो महाक्षपणकनिर्मितः, ऐश्वर्यसमेतत्वात् तदुक्तं योगबिन्दौ → यदैश्वर्येण समन्वितः तदीश्वरः ← [३-२] इति तथा च [१६-१८] इति द्वात्रिंशद्वात्रिंशिकायाम् [ १५-१९] इत्यध्यात्मसारेऽपि, तम् ।
पुनः कीदृशम् ? यमभम् • यम् = संसारः → यं संसारे ← [ १०० ] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, मः = हुतभुक् म ? (मो) भवेदिह मेधायां निवारणे साक्षिसत्यवादे च हुतभुक् ← [३९] इत्यजिरादि- एकाक्षरीनाममालाऽज्ञातकृता, भः = जलद: भः शम्भौ भ्रमरे भावे शुक्रेऽशौ जलदे पुमान् ← [५९] इत्येकाक्षरकाण्डः कविराघवग्रथितः, यमेव म इति यमस्तत्र भ इव य: स यमभः = संसारशिखिसलिलद: विनष्टसंसार इत्यर्थः, दुःखरहितत्वात् तस्य च तद्रूपत्वात् तदुक्तं योगदृष्टिसमुच्चये दुःखरूपो भवः ← [ ४७ ] इति, तम् ।
मङ्गलाचरणम्
११