________________
[४१] इत्येकाक्षरीयप्रथमकाण्डः परमानन्दनन्दनप्रणीतः, कर्मक्षेपकत्वाद् शिवङ्गमयितृत्वाच्छिवं वा गन्तृत्वाच्च तदुक्तम् → ईरेइ विसेसेणं ख्रिवेइ कम्माई गमयइ शिवं वा गच्छड् य तेण वीरो ← इति [ १०६०] विशेषावश्यकभाष्ये, तस्य सम्बोधने |
पुनः कीदृश ! ? फप ! - फम् = चारु फं फल्गु चारु वा स्मृतम् ← [७२] इत्येकाक्षरनाममाला सौभरिरचिता, पम् = दैवम् भाग्यमित्यर्थः → पं कनके विपन्ने वाच्यलिङ्गवत् आप्ये चापे च दैवे स्यात् ← [८० / ८१ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, पं फं यस्य स पफः = सुदैवः दैवस्य सानुकूलत्वस्यार्हतो वैशिष्ट्यात्, तस्य सम्बोधने ।
पुनः कीदृश ! ? धद ! धः = धर्मः धो धर्मे च ← [ १६ ] इत्येकाक्षरकोषो महाक्षपणकविहितः, धं ददातीति 'डा'न्तो धदः = धर्मदाता श्रुतचारित्रात्मकधर्मदयत्वात् तदुक्तम् → धर्मं श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधरणस्वभावं दयते ददातीति धर्मदयः ← [१] इति समवायाङ्गसूत्रवृत्तौ, तस्य सम्बोधने ।
पुनः कीदृश ! ? ण ! णः = निर्गुणः अर्हन्नित्यर्थः निर्गुणे णः प्रकीर्तितः ← [२२] इत्येकाक्षरनाममाला वररुचिविद्वत्कृता, अर्हतो निर्गुणत्वेन सह पर्यायवाचित्वमुक्तमर्हत्सहस्रनामसमुच्चये निर्गुणो नीरसो निर्भी: ← [२-१०] इति तस्य सम्बोधने ।
पुनः कीदृश ! ? गख ! गम् = गलितम् गत्योरपि गा स्मृता नपुंसके च गलिते ← [३५/३६] इत्येकाक्षरशब्दमालाऽमात्यमाधवग्रथिता, खम् = कर्म → खः..... कर्मेन्द्रिये सुखे क्षेत्रे क्लीबलिड्गे ← [ ३२/३३] इत्येकाक्षरशब्दमालाऽमात्यमाधवगुम्फिता, गानि खानि यस्य स गखः = गलितकर्मा सर्वथा निष्कर्मेत्यर्थः, मुक्तिप्राप्तेः, तस्यैव तदुपलब्धेस्तदुक्तं तत्त्वार्थसूत्रे कृत्स्नकर्मक्षयो मोक्षः ← [ १०- ३] इति तथा च योगशास्त्रे मोक्षः कर्मक्षयादेव ← [४-११३] इति, तत्सम्बोधने । अवस्था भिदाश्रयणान्नापरेण सह विरोध: 1 अथ कीदृशं त्वाम् ? सषम् ! सम् = श्वेतम् → सकारं भारतीबीजं मङ्गलाचरणम्
९