________________
भीष्मत्वम्, तस्य हो यस्मात् स हहहः = दारुणकन्दर्पनिवारकः, तम् ।
पुन: कीदृशम् ? हम् ऊ हः = वीरः → होऽथ वीरे - [४१] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनग्रथित:, रागरहितत्वात्, रागरहितस्य वीरत्वात्, तदुक्तम् प्रथमाने → तम्हा वीरे ण रज्जति - [आचा.-९८] इति, तम् ।
पुन: कीदृशम् ? हम् - हम् = भासुरम् → हं चौर्यं हरणं पूर्णं भासुरम् । [९७] इत्येकाक्षरनाममाला सौभरिगुम्फिता, देवाधिदेवशक्रवद्द्युतिमानित्यर्थस्तथा च पारमर्षम् → सक्के व देवाहिवई जुईमं - त्ति [१-६-८] सूत्रकृताङ्गे, तद् ।
पुन: कीदृशम् ? हहम् * हम् = हास्यम् → हं क्लीबमस्त्रसुख्खयो: क्वणिते मणिरोचिषि परब्रह्मामन्त्रणयोस्त्रिषु तून्मत्तहास्ययो: [८२] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, हः = शून्यम् → हः शिवे सलिले शून्ये - [३३-१] इति पूर्वोक्तमेदिनीकरवचनाद्, हेन ह इति हहः = हास्यशून्य: गतरागत्वात्, हास्यस्य रागस्वरूपत्वात्, तम् ।
अथ हास्यशून्यत्वे स्पष्टमेवार्हत: शोकार्तत्वम् दु:खस्य तद्धेतुत्वादिति चेत्.... न हास्यस्य मोहनीयभेदत्वाद् तदुक्तम् → हसनं हास:, हासमोहोदयजनितो विकार: 6 [२६९] इति स्थानाङ्गसूत्रवृत्तौ, जिनस्य च तच्छून्यत्वाद् निर्मोहस्य जिनस्य पूर्णसुखित्वाच्च, तदेवाह ।
पुन: कीदृशम् ? हहम् - हम् = पूर्णम् → हं चौर्यं हरणं पूर्णम् - [९७] इति पूर्वोक्तसौभरिवचनाद्, हम् = सुखम् → हं क्लीबमस्त्रसुखयो: - [८२] इति पूर्वोक्तैकाक्षरकाण्डोक्तेः, हं हं यस्य स हहः = संपूर्णसुखी सिद्धवात् सिद्धसुखस्यानन्यत्वादमेयत्वाच्च तथा चार्षम् → सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जड़ हविज्जा सोऽणंतवग्गभइओ सव्वागासे न माइज्जा त्ति [९७६] आवश्यकनियुक्तौ, तम् ।
पुन: कीदृशम् ? हम् - हः = पापहरण: → (ह) अथ पुंसि शिवे शून्ये व्योम्नि स्वर्गेऽप्सु धारणे चन्द्रेऽपि पापहरणे + [६६६६] इति वाङ्मयार्णव: पण्डितरामावतारशर्मभणित:, सन्मार्गोपदेशकत्वात् तस्यैव तत्कारणत्वात्, तम् ।
ह:] श्रीमहावीर स्वामिस्तुति:
१७१