________________
नियजसससहरपसाहिय दियंते निययमणाईअणंते पडिवन्नो शरणमरिहते - [२१] इति चतुःशरणप्रकीर्णके।
पुन: कीदृश: ? शश: ७ श: = भूप: → शो वल्मीके शिवे कूर्मे भूपे , [६७] इति नानार्थरत्नमालेरुगपदण्डाधिनाथकृता, शानां श इति शश: = भूपानामपि भूप: राजाधिराजत्वात् ।
पुन: कीदृश: ? शश: - शम् = सुखम् → शं सुखश्रेयसोरपि - [३९] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनविहितः, श: = महार्णव: सागर इत्यर्थः → शो महेशे महार्णवे - [१०९] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, शस्य श इति शश: = सुखसागर: आनन्दानन्त्याद् दु:खांशशून्यत्वाच्च ।
न चास्तु सुखसागरत्वेन साफल्यमस्यान्यस्मै शर्मप्रदानविधावेव यथा वैयर्थ्यमेवावबुध्यते कोट्यधिकसुवर्णमुद्राधिपते: कार्पण्ये सुवर्णादीनां तथेति वाच्यम् अनन्तरमेव कथयिष्यमाणत्वाद् । ____ पुन: कीदृश: ? शश: - शम् = स्वर्ग: → शं शास्त्रे श्रेयसि मङ्गले कीत्तौ शक्त्यायुधे स्वर्गे - [६८] इति नानार्थरत्नमालेरुगपदण्डाधिनाथग्रथिता, शम् = सुखम् → शं सुखम् - [३३] इत्येकाक्षरकोश: पुरुषोत्तमदेवप्रणीत:, शस्य शं यस्मात् स शश: = स्वर्गसुखप्रदायक: तद्दानेऽपीशत्वात् ।
नन्वस्त्वनेनाप्यस्माकं यतो नाशंसामहे स्वर्गसौख्यमाशास्महे वयं तु शिवशर्मैव नान्यन्न च प्रोक्तं तदतो दोषस्य तादवस्थ्यमेवेति चेत्...... श्रुणु तस्यैव निगद्यमानत्वाद् ।
पुन: कीदृश: ? शश: - श. = शोभन: → श: सूर्ये शोभने - [१०८] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, शम् = सुखम् → शं सुख्खे स्याच्च . [४०] इत्यनेकार्थतिलक: सचिवमहीपनिर्मित:, स्यात् श: शं यस्मात् स शश: = सुन्दरसुखदायक: शिवशर्मण एव सुन्दरतमत्वात् तस्यानन्त्यादनवधित्वाच्च । ___कोट्यधिकसुवर्णमुद्राधिपतेर्दातृत्वेऽपि न स स्वादिना स्ववदन्यस्यापि समृद्धिमत्त्वं कल्पते न च सर्वमपि राति तीर्थकरस्तु स्वाख्रिलान्येव शर्मादीन्यन्यस्मायपि प्रयच्छति तथा च तस्यानुदानं स्यात् क्षैण्यमहतस्तु तन्नेति भेदविशेषश्च ।
पुन: कीदृश: ? श: - श: = स्वच्छ: → तथा स्वच्छे श: 6 [१०९] [श:] श्रीनमिनाथजिनस्तुति: १४९