________________
स्माभिः जिनराजस्तोत्रस्य राजहंसाभिधानायां स्वोपज़वृत्तौ → रागद्वेषयोरसत्यजननहेतुत्वात् - [श्लो.-५.पृ.-२९] इति ।
सत्यशास्त्रत्वात् स्याज्जिनेश्वरादेव संज्ञानलाभः, अत एवाशयोऽयं यदज्ञानाम् - ज्ञानरहितानामल्पज्ञानिनां वा शरणमर्हन्नेवेति व्याचिख्याषुराह ।
पुन: कीदृश: ? शशम् शम् = अज्ञ: → शं सुखार्थाज्ञशक्तिषु - [७६] इत्येकाक्षरकाण्ड: कविराघवविरचितः, शम् = शरणम् → शं सुखं शरणम् . [९०] इत्येकाक्षरनाममाला सौभरिविहिता, शानां शमिति शशम् = अज्ञानिनां शरणम् सज्ञानोपलब्धेः।
पुन: कीदृश: ? श: + श: = शोभन: → श: सूर्ये शोभने — [१०८] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, सर्वविषयेषु सौन्दर्यान्न कस्यचिद्विषयस्योल्लेखः ।
पुन: कीदृश: ? शश: - श: = शशाङ्क: चन्द्र इत्यर्थः → श ? (श:) शशाके - [१०८] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, श: = शीत: → श: सूर्ये शोभने शीते - [१०८] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, श इव श इति शश: = शशाङ्कवच्शीत: परमसौम्यत्वात् क्रोधकषायशून्यत्वाच्च ।
पुन: कीदृश: ? शश: * श: = सूर्य: → श: सूर्ये - [१०८] इति पूर्वोक्तविश्वशम्भुवचनात्, श: = रश्मि: → श ? (श:) शशाङ्केऽच्छवारिणि रश्मौ * [१०८/१०९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, अथवा शा = शोभा → शा स्त्रियां देवपूजायां शक्तौ शोभावरेण्ययो: [६७] इति नानार्थरत्नमालेरुगपदण्डाधिनाथगुम्फिता, श इव शा यस्य स शश: = सूर्यवद्दीधितिमान् सूर्यवच्छोभावान् वा देदीप्यमानत्वादज्ञानतिमिरप्रध्वंसकत्वाच्च ।
पुन: कीदृश: ? शशश: श: = शशाङ्क: श: = रश्मि: → श ? (श:) शशाङ्केऽच्छवारिणि रश्मौ - [१०८/१०९] इति पूर्वोक्तविश्वशम्भूक्ते:, शम् = कीर्ति: → शं क्लीबे शास्त्रे श्रेयसि मङ्गले कीत्तौ + [६८] इति नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता, शस्य श इति शश: = शशाङ्कशोचि: चन्द्रि के त्यर्थः तद्वत् शम् यस्य स शशश: = शशाङ्कशोचि:श्लोक: चन्द्रिकावन्निर्मलसर्वगयशसा प्रसाधितदिगन्त इत्यर्थः, अर्हत्त्वात्, तदुक्तम् → [श:] श्रीनमिनाथजिनस्तुति: १४७