________________
ननु सर्वारिजेतृत्वमुक्तं पूर्वमेव 'वीरम्' इत्यमुष्मिन् विशेषणे अथालं पुनरुक्त्येति चेत्.... न आशयपार्थक्यात् तत्र तु शत्रुत्वेन बायशत्रव एव बोध्या न तीर्थकृदयं केवलं बाहयारिजेता क्रोधादिशत्रुसमूहरहितश्चापि तेषामपि जेतृत्वात्, अत एवात्राभ्यन्तरवैरिवारविजेतृत्वमपि विज्ञेयम् ।
पुनः कीदृशम् ? रररम् - र: = काम: → रो ध्वनौ तीक्ष्णे वैश्वानरे कामे 6 [१६/१७] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रकविविहिता, र: = वह्निः → र: स्मये जलदे तीक्ष्णे वह्नौ [१९] इति शब्दरत्नसमन्वय: शाहराजमहाराजगुम्फितः, रम् = जलम् → रंजले - [१०१] इत्येकाक्षरनाममालिका विश्वशम्भुलिखिता, र एव र इति ररस्तत्र रवद् य: स रररम् = कामकृशानुकम्, पूर्वोक्ताभ्यन्तरारिरहितत्वे एवास्यान्तर्भाव: स्यात्तथापि कामरिपोर्दुर्जेयत्वव्याख्यानाय पृथगुपन्यासः, तद् ।
पुन: कीदृशम् ? ररम् - र: = भूमिः पृथ्वीत्यर्थः → रश्च रामेऽनिले वह्नौ भूमावपि - [२९] इत्येकाक्षरकोष: पुरुषोत्तमदेवरचितः, रम् = रत्नम्
→ रं रत्नम् - [८३] इति पूर्वोक्तसौभरिवचनाद्, रे रमिव य: स ररम् = रसारत्नम्, तद् ।
पुन: कीदृशम् ? ररम् - र: = रज: → रस्तु रक्षणे भीतौ रजसि . [११७] इति पूर्वोक्तकालिदासव्यासवचनाद्, र: = छेद: → रो नादे छेदने वेदे 6 [१०२] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, रस्य रो यस्य यस्माद् वा स रर: = रजश्छेदकः, तम् ।
पुन: कीदृशम् ? ररम् - र: = रुचिर: → रुचिरो रेफ ईरित: - [४५] इत्येकाक्षरीमातृकाकोशोऽज्ञातकृतः, र: = रूपम् → रश्च कामेऽनले वजे शब्दे रूपे च कीर्तित: [३०] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातविहिता, रो रो यस्य स रर: = रुचिररूपवान् तदनुपमत्वात् सर्वसुरैरपि जिनाङ्गुष्ठतुल्यरूपं विधातुमशक्यत्वात्, तथा चार्षम् → सव्वसुरा जइ रुवं अंगुट्ठपमाणयं विउव्वेज्जा जिणपायंगुठं पड़ णं सोहइ तं जहिंगालो + [५६९] इत्यावश्यकनियुक्तौ, तम् ।
पुन: कीदृशम् ? रम् - र: = गुरुः → र: स्यात् पुमान् शिवे वह्नौ वजे [र] श्रीअरनाथजिनस्तुतिः १२९