SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ननु कृतं धनधान्यसमृद्धिनैव सार्थक्यञ्च तस्य दान एव सन्ति चात्र पुष्कला: पार्थिवा धनधान्यपरिपूर्णा अपि मितम्पचत्वेन मुद्रितान्त:करणा न च तीर्थेशोऽयमेतादृग् परमौदार्यात् तदेवाह । पुनः कीदृशम् ? रररम् • र: = रङ्क: → रस्तु रक्षणे भीतौ रजसि रके च - [११७] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, रम् = धनम् → रं रत्नं रोदनं धनम् - [८३] इति पूर्वोक्तसौभरिवचनाद्, रं राति = ददाति इति रर: = द्रविणदाता → रांक दाने - [१०६९] इति धातुपाठो श्रीहेमचन्द्राचार्यगुम्फित:, रेभ्यो रर इति ररर: = दीनेभ्यो द्रविणदायक: परमकृपालुत्वात्, तम्, बिभ्रत्यत्र परिपूर्णं सर्वेऽपि किन्तु नैष्फल्यमेव तद्दानस्य वारिधौ वृष्टेयर्थ्यात् यथा तथा दीनेभ्यो ददतेऽल्पीयांस एव केचिद् दयालदो नि:स्वार्थवृत्तयो दानं करुणापरत्वादिति । पुन: कीदृशम् ? रम् छ र: = वीर: → र: स्यात् पुमान् शिवे वह्नौ वजे कामे रवौ गुरौ, अनाथे कपिले पिण्डे वीरे [९७] इत्येकाक्षरशब्दमालाडमात्यमाधवग्रथिता, सर्वारिजेतृत्वादेतेन जिनेशितुश्चक्रित्वं व्याख्यातम्, षट्खण्डनायकत्वात्, तम् । पुन: कीदृशम् ? ररम् - र: = सूर्य: → र: कामो वह्निः सूर्योऽथ . [८१] इत्येकाक्षरनाममाला सौभरिरचिता, रम् = वक्त्रम् → रं क्लीबे रुधिरे मूर्ध्नि ध्याने व्योमाण्डकुक्षिषु वक्त्रे - [११८] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, र इव रं यस्य स रर: = सूर्यवदन: अतीवतेजस्वित्वाद् देदीप्यमानत्वाच्च, तम् । पुन: कीदृशम् ? ररम् - र: = शत्रु: → रुरौ शब्दौ पुमांसौ द्वौ शम्भु(शत्रु)शब्दार्थवाचकौ - [१०३] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, र: = क्षय: → र: पुमान् पावके कामे क्षये - [६५] इत्येकाक्षरकाण्ड: कविराघवकृत:, राणां रो यस्मात् स रर: = शत्रुक्षायक: प्रभो: प्रभावादन्येषामपि शत्रुजयने प्रभुतेत्याशय:, अथवा राणां रो यस्य स रर: = शत्रुक्षायक: सर्वारिजेतृत्वात्, तम् । [रः] श्रीअरनाथजिनस्तुतिः १२७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy