________________
૧૫૦ रङ्को विक्रीयमाणानि, दधिभाण्डानि चत्वरे । स्फोटं स्फोटं तद्दधीनिं, लिलिहुँः कुक्कुरा इव ॥३१५॥ अन्वय :- रङ्काः कुक्कुराः इव चत्वरे विक्रीयमाणानि दधिभाण्डानि
स्फोटं स्फोटं तद्दधीनि लिलिहुः । समास :- (१) दधिभाण्डानि- (A) दध्ना भृतानि इति दधिभृतानि ।
(तृ.त.पु.) (B) दधिभृतानि भाण्डानि इति दधिभाण्डानि, तानि
___ दधिभाण्डानि । (म.प.लो.क.) (२) तद्दधीनि - तेषां दधीनि तद्दधीनि, तानि तद्दधीनि ।
(ष.त.पु.) अस्थिचर्मावशेषाङ्गाः, सुव्यक्तस्नायुमण्डलाः । राः सर्वत्र सञ्चसँः, परेता इवं दारुणाः ॥३१६॥ अन्वय :- परेताः इव दारुणाः अस्थिचर्मावशेषाङ्गाः सुव्यक्तस्नायु
मण्डलाः रङ्काः सर्वत्र सञ्चेरुः । परेता:-मृताः । प्रमीत उपसम्पन्नः परेतप्रेतसंस्थिताः ।।३७३।। नामालेख्ययशःशेषौ व्यापन्नोपगतौ मृतः ॥ इत्यभिधाने
(३७४) समास :- (१) अस्थिचर्मावशेषाङ्गाः - (A) अस्थीनि च चर्माणि च
एतेषां समाहारः इति अस्थिचर्म । (समा.द्व.) (B) अस्थिचर्म अवशेषः यस्मिन् तद् इति अस्थि
चर्मावशेषम्। (समा.ब.वी.) (C) अस्थिचर्मावशेषम् अङ्ग येषां ते अस्थि
चर्मावशेषाङ्गाः । (समा.ब.वी.)