________________
आचारांगसूत्र
१५५ નથી, મૂંગો હોવાથી રડતો નથી. બૂમાબૂમ કરતો નથી.) એટલા માત્રથી શું તે જીવને વેદનાનો અથવા તો જીવ અભાવ જાણવાનું શક્ય નથી ? એ પ્રમાણે પૃથ્વી જીવો પણ, (તેઓમાં પણ વેદનાનો અનુભવ છે.) એ પ્રમાણે પૃથ્વીકાયનો સમારંભ કર્મબંધનો હેતુ છે જ. આવું જાણીને પ્રત્યાખ્યાન પરિજ્ઞા વડે તેનાથી અટકે છે (પાછો ફરે છે, તે જ મુનિ છે. (જાણવા અને પાલનરૂપ) બંને પરિજ્ઞાવાળો હોવાથી અને નિશંકપણે સાધુયોગ્ય ગુણોને પાળતો હોવાથી. (તે જ મુનિ છે.) ||१२||
अथ यथावसरमप्कायस्य निरुपणमारचयतिप्ररूपणालक्षणपरिमाणोपभोगशस्त्रैरप्कायस्य विशेषः ॥ १३ ॥
प्ररुपणेति, विशेष इति, पृथिवीकायजीवस्वरूपाधिगमनिमित्तद्वारनवकाविशेषेऽपि केचिद्विशेषा एभिरस्य सन्तीति भावः, तथाहि प्ररूपणा तावत्-अप्कायजीवास्सूक्ष्मबादररूपेण द्विविधाः, सूक्ष्माः सर्वलोकव्यापिनः । बादराः पञ्चविधाः शुद्धोदकावश्यायहिममहिकाहरतनुभेदात्, तडागसमुद्रनदीप्रभृतिगतमवश्यायरहितं शुद्धोदकम्, रजन्यां यः स्नेहः पतति सोऽवश्यायः, शिशिरसमये शीतपुद्गलसम्पर्कात् कठिनीभूतं जलं हिमम्, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिका, वर्षाशरत्कालयोर्हरिताङ्करमस्तकस्थितो जलबिन्दुभूमिस्नेहसंपर्कोद्भूतो हरतनुरिति । एते बादराकायाः पर्याप्तापर्याप्तभेदेन द्विविधाः, वर्णगन्धादीनसम्प्राप्ता अपर्याप्ताः, पर्याप्तास्तु वर्णगन्धस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च संख्येयानि योनिप्रमुखाणि शतसहस्राणि भेदानां भवन्ति, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात्रिधा, पुनश्च शीतोष्णोभयभेदान्त्रिविधा एवं गण्यमाना योनीनां सप्तलक्षा भवन्ति । परिमाणम्-पृथिवीवत् परन्तु बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः, बादरपृथिवीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्य: सूक्ष्माप्कायपर्याप्तका विशेषाधिका इति विशेषः । लक्षणम्-ननु नाप्कायो जीवस्तल्लक्षणायोगात् प्रश्रवणादिवत्, मैवम्, सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, प्रश्रवणादौ व्यभिचारवारणाय सत्यन्तम्, हस्तिशरीरोपादानभूतकललवत्, अनुपहतद्रवत्वादण्डकमध्यस्थितकललवदित्यनुमानेन तल्लक्षणायोगादिति हेतोरसिद्धः, तथाऽऽपो जीवशरीराणि, छेद्यत्वभेद्यत्वादिभ्यः, सास्नाविषाणादिसंघातवदित्येवमपां शरीरत्वे सिद्धे सचेतना हिमादयः क्वचिदप्कायत्वात् इतरोदकवत्, सचेतना आपः क्वचित् खातभूमिस्वाभाविकसम्भवात्,