________________
आओ संस्कृत सीखें
12 276,
आत्मनश्च परेषां च, स हास्यः स्याद्विपश्चिताम् ।। परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा । परोपकारासामर्थ्य, कुर्यात्स्वार्थे महादरम् ।। विद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा । सन्तोषो नैव कर्तव्यः, स्थैर्य हितकरं तयोः ।। प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः । सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः ।। प्रत्यक्षे गुरवः स्तुत्या: परोक्षे मित्रबान्धवाः । कर्मान्ते भृत्यवर्गाश्च, पुत्रा नैव मृताः स्त्रियः ।। कश्चैकान्तं सुखमुपगतो, दुःखमेकान्ततो वा । नीचैर्गच्छत्युपरि च दशा, चक्र-नेमि-क्रमेण ।।
चाणक्य:- शोभनम् । वत्स ! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि। शिष्यः- तथेति । (निष्क्रम्य, चन्दनदासेन सह प्रविश्य) इत इतः श्रेष्ठिन् !। चन्दनदास : स्वगतम् चाणक्ये अकरुणे सहसा शब्दायितस्यापि जनस्य । निर्दोषस्याऽपि शङ्का किं पुन मम जातदोषस्य ।।
तस्माद्भणिता मया धनसेन-प्रमुखा निजनिवेशसंस्थिताः ‘कदापि चाणक्यहतको गेहं विचाययति, तस्मादवहिता निर्वहत भर्तुरमात्यराक्षसस्य गृहजनम्, मम तावद्यद्भवति तद्भवत्विति'।
शिष्यः- (उपसृत्य) उपाध्याय ! अयं श्रेष्ठी चन्दनदासः । चन्दनदास:- जयत्वार्यः । चाणक्य:- (नाट्येनावलोक्य) श्रेष्ठिन् ! स्वागतमिदमासनमास्यताम् ।
चन्दनदासः (प्रणम्य) किं न जानात्यार्यः यथानुचित उपचारो हृदयस्य परिभवादप्यधिकं दुःखमुत्पादयति, तस्मादिहैवोचितायां भूमावुपविशामि ।
चाणक्य:- भोः श्रेष्ठिन् ! मा मैवम्, संभावितमेवेदमस्मद्विधै र्भवतस्तदुपविश्यतामासन एव ।
चन्दनदासः- (स्वगतम्) उपक्षिप्तमनेन दुष्टेन किमपि (प्रकाशम्) यदार्य आज्ञापयतीति। (उपविष्टः)