SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 277 आओ संस्कृत सीखें चाणक्य:- भोः श्रेष्ठिन् ! चन्दनदास ! अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?। चन्दनदासः (स्वगतम्) अत्यादरः शङ्कनीयः, (प्रकाशम्) अथ किम्, आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या । चाणक्य:- न खलु चन्द्रगुप्तदोषा अतिक्रान्तपार्थिव-गुणानधुना स्मारयन्ति प्रकृती:? चन्दनदासः- (कर्णी पिधाय) शान्तं पापम्, शारद-निशा-समुद्गतेनेव पूर्णिमाचन्द्रेण चन्द्रेणाधिकं नन्दन्ति प्रकृतयः । चाणक्य:- भोः श्रेष्ठिन् ! यद्येवं प्रीताभ्यः प्रकृतिभ्यः प्रति प्रियमिच्छन्ति राजानः। चन्दनदास:- आज्ञापयतु आर्यः । कियदस्माज्जनादिष्यत इति। चाणक्य:- भोः श्रेष्ठिन् ! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्, यतो नन्दस्यैवार्थरुचेरर्थसम्बन्धः प्रीतिमुत्पादयति, चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव। चन्दनदासः (सहर्षम्) आर्य ! अनुगृहीतोऽस्मि । चाणक्य:- संक्षेपतो राजनि अविरुद्धाभि वृत्तिभिर्वर्तितव्यम् । चन्दनदास:- आर्य ! कः पुनरधन्यो राज्ञा विरुद्ध इति आर्येणावगम्यते । चाणक्य:- भवानेव तावत्प्रथमम् । चन्दनदास: (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्, कीदृशस्तृणानामग्निना सह विरोध:?। चाणक्यः- अयमीदृशो विरोधः, यस्त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि । चन्दनदासः- आर्य ! अलीकमेतद् केनाप्यनभिज्ञेन आर्यस्य निवेदितम् । चाणक्य:- भोः श्रेष्ठिन् ! अलमाशङ्कया, भीताः पूर्व-राजपुरुषा: पौराणामनिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति, ततस्तत्प्रच्छादनं दोषमुत्पादयति । चन्दनदास : एवमिदम्, तस्मिन्समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति। चाणक्यः- पूर्वमनृतमिदानीमासीदिति परस्परविरोधिनी वचने । चन्दनदासः- एतावदेवास्ति मे वाक्छलम् । चाणक्य:- भोः श्रेष्ठिन् ! चन्द्रगुप्ते राजन्यपरिग्रहः छलानाम्, तत्समर्पय राक्षसस्य गृहजनम्, अच्छलं भवतु भवतः । चन्दनदास:- आर्य ! ननु विज्ञापयामि तस्मिन्समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति । चाणक्यः- अथेदानी क्व गतः? ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy