SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: १०१ २. जुह्वतु। हु + अन्लुक् + पञ्चमी-अन्तु। 'हु दाने' (२।६७) धातु से पञ्चमीविभक्तिसंज्ञक 'अन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६०० । ६०१. भुवो वोऽन्तः परोक्षाग्द्यतन्योः [३३६१] [सूत्रार्थ] परोक्षा–अद्यतनीविभक्तिसंज्ञक स्वरादि प्रत्ययों के परवर्ती होने पर 'भू' धातु के अन्तिम ऊकार को वकारादेश होता है।। ६०१ । [दु० वृ०] भुवो धातोरन्तो वकारो भवति परोक्षाद्यतन्योः स्वराद्योः परत:। बभूव, बभूवतुः, बभूवुः। बभूविथ, अभूवन्, अभूवम्। पुनर्वकारो गुणवृद्धिबाधनार्थ:। नित्यश्चेदगुणाधिकार: स्यात्। स्वराद्योरिति किम् ? अभूत्, बभूवान्। 'बभूवुषः' इति 'असिद्धं बहिरङ्गमन्तरङ्गे (का० परि० ३३) इति।। ६०१ । [दु० टी०] भवः। पुनर्वकार इत्यादि। “नोर्वकारो विकरणस्य" (३।४।६०) इत्यतो वकारोऽनवर्तते, तेन वकारो वकार इति वकार एव भवतीत्यर्थः। तस्माद् गुणवृद्ध्योः परत्वेऽपि बाधा सिद्धति भावः। ननु च 'नित्यानित्ययोर्नित्यविधिर्बलवान्' (का० परि० ४९) इति वकारागम एवेत्यवस्थान्तरेऽपि स एव भवतीति निमित्तम्, कुतो गणवृद्धिप्रसङ्गः। व्यक्तिपक्षे हि 'शब्दान्तरस्य विधिः प्राप्नुवन्नित्यो भवितुमर्हति' (व्या० परि० ७७) इति? नैवम्, पूर्वसूत्रे गुणाधिकारः सम्बध्यते, व्यावृत्ते: सम्भवात्, तथात्रापीत्युवादेशस्यैव बाधकः स्यादिति पुनर्वकार उच्यते। ननु च “य्वोर्व्यञ्जनेऽये" (४।१। ३५) इत्यनेन लोपो भविष्यति, स्वरानुवर्तनेन किम् ? सत्यम्, विधानबलाद् वकारस्य स्थितिरेव मन्यते।। ६०१ । [वि० प०] भुवो० । अभूवन्निति। "इण्स्था०" (३।४।९३) इत्यादिना सिचो लुक्। पुनरित्यादि। पूर्वसूत्राद् वकारानुवर्तनाद् वकारो वकार इति किमुक्तं भवति-वकार एवेति। तेन बभूविथेति गुणस्य, बभूवेति वृद्धश्च परत्वेऽपि बाधा सिद्धेति। अथ कृताकृतप्रसङ्गित्वेनाधिकृत एव वकारो नित्यत्वाद् भवन् गुणवृद्धी बाधिष्येते, किं पुनर्वकारेणेति चेत् तर्हि पूर्वसूत्रसम्बद्धोऽगुणाधिकारोऽपि स्यात्। तस्मात् पुनर्वकारेणासौ निवर्त्यत इति । बभूवान् इति क्वन्सुः, अस्य च परोक्षावद्भावो द्विर्वचनादिकं भवतीति। अथ “अघुट्स्वरादौ सेट्कस्यापि" (२।२।४६) इत्यादिना वन्सेर्वकारस्योत्वे स्वरादित्वमस्तीति न कथं वकारागम इत्याह – बभूवुष इति। वकारागमे प्रकृत्याश्रितत्वाद् अन्तरङ्गे कर्तव्ये बहिरङ्गमुत्वमसिद्धं भवतीत्यर्थः। उवादेशे तु कर्तव्ये सिद्धम्, अनित्यत्वादस्याश्च परिभाषाया इति।। ६०१ । [समीक्षा] 'बभूव, अभूवन्, अभूवम्' इत्यादि प्रयोगों के सिद्धयर्थ 'भू' धातु के अनन्तर वकार की आवश्कता होती है। इसकी पूर्ति कातन्त्रकार ने वकारागम से तथा पाणिनि
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy