SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५३० कातन्वव्याकरणम् ३. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः (वि० प०)। ४. वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः। निपातनस्येष्टविषयत्वादिति केचित् । 'वा खारी' इत्यत्र विकल्पकरणादित्यर्थः । क्रियासम्बन्धात् पश्चात् पठितुं युज्यते इत्यपरः (क० च०)। [रूपसिद्धि] १. उपराजम् । राज्ञः समीपम् । उपराजन् +अत् +सि | समास, अत् समासान्त में त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश । २. अध्यात्मम् । आत्मनि अधि | अध्यात्मन् +अत् +सि | समास, समासान्त अत् प्रत्यय, त् अनुबन्ध का प्रयोगाभाव, टिलोप तथा सि को अमादेश ||४०७। ४०८. डानुबन्धेऽन्त्यस्वरादेर्लोपः [२/६/४२] [सूत्रार्थ] ङ्- अनुबन्ध वाले प्रत्यय के परवर्ती होने पर अन्तिम स्वरादिरूप अवयव का लोप होता है ।।४०८। [दु० वृ०] डानुबन्धे प्रत्यये परेऽन्त्यस्वरादेरवयस्य लोपो भवति । चत्वारिंशतः पूरणः चत्वारिंशः । एवं पञ्चाशः । सरसिजम्, जलजम्, सप्तमीपञ्चम्यन्ते जनेर्डः ।। ४०८। [दु० टी०] डानु० । 'ड' इत्यकार उच्चारणार्थः । डोऽनुबन्धो यस्येति अनुबन्धग्रहणसामर्थ्याद् अतद्धितेऽपि स्यात् । नहि तद्धितो डः प्रयोगी संभवतीत्याह - सरसिजम्, जलजमिति । एतेन कृप्रत्ययेऽपि लोपः । ननु “योऽनुबन्धोऽप्रयोगी" (३/८/३१) इति कृत्स्वपि डकारकरणसामर्थ्याद् भवति, किमनुबन्धग्रहणेन ? सत्यम्, सुखार्थमिदम् । अन्त्यस्वर आदिर्यस्यावयवस्येति विग्रहे एकषष्टेः पूरणः एकषष्टः, इतीकारमात्रस्यापि लोपः, व्यपदेशिवद्भावात् ।। ४०८। [समीक्षा] पूरण आदि अर्थों में 'चत्वारिंशत्-पञ्चाशत्' शब्दों में 'अत्' का तथा ‘सरसिजम्, जलजम्' आदि में 'अन्' भाग का लोप अर्थात् 'टि' संज्ञक अवयव का लोप उभयत्र
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy