SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२४ कातन्त्रव्याकरणम् तदा आकृतिगणत्वाद् भविष्यति । अत एव टीकाकृता च अन्येऽपि प्रतिपत्तव्या अभिधानाद् इत्युक्तम् ।कथमन्यथा पाराशर्यः' इति स्यात्, पराशरशब्दस्यापि तत्रागणनात् । ननु वाऽधिकाराद् गर्गादिशब्दात् पक्षेऽण् कथं न स्यात् । अत्र केचिद् गर्गस्यापत्यमिति वाक्य एव वाशब्दस्य चरितार्थत्वादिति । तन्न, पूर्वसूत्रे उपगोरपत्यम् इति वाक्ये वाशब्दस्य चरितार्थत्वेऽपि सिद्ध कथमुक्तं वाग्रहणाद् उपगोरपत्यम् उपग्वपत्यं च स्यादिति ? वयन्तु ब्रूमः-विधेयत्वादण् वाऽपत्य इति सिद्धे यत् पूर्वं वाग्रहणं तबलादनुक्रमेण वाऽधिकार इति भावः । यद्यपि गर्गादिगणादपत्यार्थे ण्यप्रत्यये उक्तस्तथापि केषांचिद् अर्थविशेष एव | बभ्रोः क्षत्रिये बाभ्रव्यम्, बाभ्रव्योऽन्यः। कपिबोधिवातण्डेभ्य आङ्गिरसे | काप्यः, बौद्धः, वातण्ड्यः। अन्यत्र कापेयः, बौधिः, वातण्डः ।साधोब्राह्मणे ।साधव्यः,साधवोऽन्यः ।सेनान्तकारुभ्य इण् च, चकाराण्ण्यश्चहारिषेण्यः, हारिषेणिः ।अन्तग्रहणम् ऋष्यस्वकादणमपि बाधते ।जातसेन्यः।जातसेनिः । भैमसेन्यः, भैमसेनिरिति । लाक्षण्यः, लाक्षणिः। वार्धक्यः, वार्धकिः । तान्त्रवाय्यः, तान्त्रवायिः । कुर्वादिभ्यः प्रथमापत्ये । कौरव्यः, गार्गर्यः । कुरु, गर्गर, खण्डुक, अयिसार, रथकारेत्यादि । दित्यदितियमेभ्यः । दैत्यः, आदित्यः, याम्यः । कथं दैतेयः, आदितेयः । "इतश्च क्तिवर्जिताद्वा" इति वचनात् स्त्रीदन्तदित्यदितिभ्यां स्त्र्यत्र्यादेरेयण, प्रजापत्यादेश्च ।प्राजापत्यः, बार्हस्पत्यः, गाणपत्यः । राज्ञो जातौ । राजन्यः क्षत्रियजातिः । अन्यत्र राजनः । तथा मनोर्यदणिणः । यच्चाण् च इण् च यदणिणस्तस्मिन् यश्चान्त इत्यर्थः । मनुष्यः, मानुषः, मानुषिः । बाह्वादीणन्तायी । श्वशुरस्य न वृद्धिः। श्वशुर्य इति कुलचन्द्रः॥३६८। [समीक्षा] गर्ग, शब्द से 'गार्ग्यः' शब्दरूप के साधनार्थ पाणिनि ने 'यञ्' प्रत्यय तथा कातन्त्रकार ने ‘ण्य' प्रत्यय किया है । केवल अनुबन्धभेद है, लेकिन उससे आदिवृद्धिरूप फल में कोई अन्तर नहीं आता, क्योंकि अपने-अपने व्याकरणों में आचार्यों ने इसी प्रकार की योजना की है । पाणिनीय गर्गादिगणपाठ में ८९ शब्द उपलब्ध हैं, जबकि कातन्त्रीय गणपाठ में ९९ । शब्दों में विशेष भिन्नता नहीं है । संख्या में कुछ भिन्नता विशेष महत्त्व नहीं रखती, क्योंकि यह आकृतिगण है और आकृतिगण में प्रयोगानुसार अन्य शब्दों का भी समावेश संभव होता है। पाणिनि ने गोत्रापत्य अर्थ में तथा
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy