SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये षष्ठस्तबितपादः ४२३ पत्यं सौराजिः । ननु ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति ? सत्यम् । तर्हि राजशब्द एवासमासे भवन् विशिष्यते । राजेर्गत्यर्थस्य घञि राजशब्दस्य ग्रहणम् । इह मा भूत्रातेः क्विपि राः । अजतेरचि अजः । राश्चासावजश्चेति राज इति । मनुशब्दोऽत्र पठ्यते कथं मानवी प्रजेति गर्गादिण्यादायगणन्तश्चेति नदादौ गणसूत्रम् । तेन मानव्यायनीति भवितव्यम् । नैष दोषः-प्रायेण पौत्रादावित्युक्तम्, प्रथमापत्येऽण् भवत्येव । मनोरियं मानवी "तस्येदम्" (२/६/७) इत्यण् । मनायीशब्दोऽत्र पठ्यते । मनाय्या अपत्यं मानय्यः । तद्धिते स्वरे च स्त्रीत्वस्याविवक्षा । अत्र तु स्त्रीत्वविवक्षाऽभिधीयते । अन्यः पुनराह - मनुशब्दपाठादेव सिद्धः । न चार्थभेदोऽस्ति । मनोर्हि स्त्री मनायी तस्या यदपत्यं तन्मनोरपि । यत्तु मनोस्तत् तस्या अपि लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् । तथा च मनायीशब्दादौत्वपक्षेऽपि ण्यो भवति । यन्मनायीशब्दं पठति तत्पुंवद्भावबाधनार्थं परत्वादेयणा बाधा स्यादिति पाठोऽयम् ।।३६८। [वि०प०] ण्य० । गोत्रेत्यादि । अपत्यमिह पौत्रप्रभृतिकं गोत्रं तस्यादिभूतादाद्यपुरुषादित्यर्थः । इहाप्यपत्यसामान्यविवक्षायामाद्यप्रकृतेरेवेत्यर्थः । अन्यत्रेति । यो गोत्रादिभूतो न भवति, अपि तु कश्चिदर्वाचीनो गर्गनामा । यच्च पौत्राद्यपत्यं न भवति अपि तु प्रथम एव तत्र “इणतः" इणित्यर्थः । क्वचित् प्रथमापत्येऽभिधानं दृश्यत इत्याह-अनन्तरोऽपीति | प्रथमापत्येऽपीत्याह-जामदग्नः,पाराशर इति चेति ।गर्गादिराकृतिगण इति ।गर्गादिप्रभृतिश्च गणपुस्तकेऽभियुक्तैर्वेदितव्य इत्यर्थः ।।३६८। [क० च०] ण्य० । गर्ग आदिर्यस्य गणस्येति गणवाचकत्वाद् एकवचनमित्याह - गणादिति । पौत्रादावेवेति पुत्रस्यापत्यं पौत्रः स एवादिर्यस्यापत्यस्येति विग्रहः । अभिधानादिति । 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' (व्या० परि० ७२) इति न्यायादित्यर्थः । अन्यत्र गार्गिरिति । ण्यप्रत्ययस्य इणाद्यपवादकत्वाद् यो गोत्रादिभूतो न भवति, यच्च पौत्राद्यपत्यं न भवति तत्रेणेवेत्यर्थः । अनन्तरोऽपीति प्रथमापत्यमित्यर्थः । अनन्तरः प्रथमापत्यमपि ण्यप्रत्ययेनोच्यते इत्यन्वयः । अर्जुनः कार्तवीर्य इति वृत्तिपाठो नास्ति । टीकाकृता कृतवीरशब्दस्य गर्गादिगणेऽगणितत्वादिति केचित् । वस्तुतस्तु यदि बहुपुस्तके वर्तते
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy