SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३३४ कातन्त्रव्याकरणम् ५० ४१ १०५. विश्लिष्टसन्धिभिन्नार्थी गुरुाहत एव च । पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिताः ।। १०६. विश्वनाथपदद्वन्द्वं नत्वा गुरुपदं मया । तन्यते हरिरामेण व्याख्यासारः समासतः ।। प्र०-४० १०७. वृक्षादिवदमी रूढा : कृतिना न कृताः कृतः । कालापनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ।। प्र०-६,२०,२५ १०८. वृक्षे वनस्पती रूढो कशायां स्यात् प्रतिष्कशः । आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ।। ३१५ १०९. वैदिका लौकिकज्ञैश्च ये यधोक्तास्तथैव ते | निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः ।। ११२,११७ ११०. व्यञ्जनानि चतुस्त्रिंशत् स्वराश्चैव चतुर्दश । अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ।। १११. व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः । अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ।। ११२. शकन्धुः केश-विन्यासे सीमन्तः कुलटाऽटवी । एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च ।। ११३. शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः । लिलेख शिखिनः पुच्छे कलापमिति कथ्यते ।। ११४. शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजनमुख्याः। मेधाविनः प्रवरदीपककर्तृयुक्ताः प्राज्ञैर्निषेवितपदद्वितया जयन्ति ।। १०६ ११५. शिवमेकमजं बुद्धमर्हदग्यं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ।। प्र०-३६, प्र०-४१, १ ११६. शृङ्गवद् बालवत्सस्य कुमार्याः स्तनयुग्मवत् । नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृतः ।। १०८ २९४ प्र०-४ ९३
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy