________________
१६२
नैवम् । वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।
अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियतां काचित् सङ्घटना तेषामाश्रयत्वं प्रतिपद्यते इत्यनियतसङ्घटनाः शब्दा एव गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः ।
ધ્વન્યાલોક
ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् । ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् । नह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतिपद्यते ।
1
उच्यते । यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न' ब्रूमः । ओजसः कथमसमासा सङ्घटना नाश्रयः । यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक् प्रतिपादितम् । तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्, तत्को दोषो भवेत् । न चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित् क्षतिः । तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः । तस्मादन्ये गुणाः अन्या च सङ्घटना । न च सङ्घटनाश्रिता गुणाः, इत्येकं दर्शनम् ।
1
अथवा सङ्घटनारूपा एव गुणाः । यत्तूक्तम् 'सङ्घटनावद् गुणानामप्यनियतविषयत्वं प्राप्नोति लक्ष्ये व्यभिचारदर्शनात्' इति । तत्राप्येतदुच्यते यत्र लक्ष्ये परिकल्पितविषयव्यभिचारस्तद् विरूपमेवास्तु ।
कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कविशक्तितिरोहितत्वात् । द्विविधो हि दोष, कवेरव्युत्पत्तिकृतो, अशक्ति
कृतश्च ।
१. नि० दी० भांडेवण खेड 'न' छे. २. ' तादृशविषये' नि०, दी० । ३. 'प्रतिभाति' नि०, (न) प्रतिभाति, दी० ।