SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२२ ધ્વન્યાલોક स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति । उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते । लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः । तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किन्तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये 'लक्षणदिग्दर्शिता, तामनुसरन् स्वयं चान्यलक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिममनन्तरोक्तमेनं ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तदा तस्यात्मलाभो भवति महीयानिति ॥१९॥ क्रमेण प्रतिभात्यात्मा योऽनुस्वानसन्निभः । शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधा व्यवस्थितः ||२०|| अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्य क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ||२०|| ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् । नापहृत इत्याह आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते । यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ २१॥ २१.१ यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितम् । वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः । यथा १. नि०, दी० मा 'अपि शब्ने 'तथाविधमपि' सहीं भेड्यो छे. २. 'लक्षणा' नि०, दी० । ३. ‘यद्यलक्ष्यकमपतितमनन्तरोक्तमेव' नि०, दी० । ४. 'तदस्यात्मलाभो' नि० । ५. 'विवक्षितः' नि० दी० । ६. 'प्रकाश्यमाने ' नि० ।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy